________________
१०४४
• देहान्तराग्रहणदशायामतिव्याप्तिनिराकरणम् • द्वात्रिंशिका-१५/२२ अवच्छेदकेति । अथ प्रामाण्योपगमे सति वेदप्रामाण्याऽभ्युपगमकाले यावान् अपकृष्टधियां अवच्छेदकदेहानां' = अपकृष्टज्ञानाऽवच्छेदकशरीराणां सम्बन्धविरहः = सम्बन्धाऽभावः ।।२२।।
अप्रामाण्येति । तावत्कालीन एव हि = सकलतत्समानकालीन एव अप्रामाण्याऽनुपगमः = वेदाऽप्रामाण्याऽभ्युपगमविरहः शिष्टत्वम् । काकदेहस्य प्रागभावो वेदप्रामाण्याऽभ्युपगमसमानकालीनः तदा च = काकस्य मरणाऽनन्तरं शरीरान्तराऽग्रहदशायां न अस्तीति नाऽतिव्याप्तिः । इत्थं च यावन्तं कालं वेदत्वेन वेदाऽप्रामाण्याभ्युपगमस्य विरहो वेदप्रामाण्याऽभ्युपगमसमानकालीनयावदप'कृष्टअथ प्रामाण्योपगमे सति = वेदत्वेन स्वारसिकप्रामाण्याऽभ्युपगन्तृत्वे सति वेदप्रामाण्याभ्युपगमकाले यावान् अपकृष्टज्ञानावच्छेदकशरीराणां सम्बन्धाभावः = अधिष्ठातृत्वादिलक्षणसम्बन्धाभावः सकलतत्समानकालीन एव = सर्वतादृशशरीरसम्बन्धाभावसमकालीन एव वेदाऽप्रामाण्याभ्युपगमविरहः = वेदत्वेन वेदगोचरस्वारसिकाऽप्रामाण्यानभ्युपगमो हि शिष्टत्वं निगद्यतेऽस्माभिः ।
ब्राह्मणभवे वेदप्रामाण्याभ्युपगन्तृत्वकाले यः काकदेहस्य प्रागभावः = काकदेहप्रतियोगिकप्रागभावः स वेदप्रामाण्याभ्युपगमसमानकालीनो वर्तते । ततश्च शिष्टत्वव्यवहारकाले स आवश्यकः, तल्लक्षणप्रविष्टत्वात् । काकस्य मरणानन्तरं शरीरान्तराऽग्रहदशायां = विग्रहगतौ = अपान्तरालगतौ स वेदप्रामाण्याभ्युपगमसमकालीनकाकदेहप्रागभावो नास्ति, काकदेहोत्पादेन तन्नाशाद् इति न = नैव शिष्टलक्षणस्य तदानीं तत्र अतिव्याप्तिस्सम्भवति, विशेषणाऽभावप्रयुक्तविशिष्टाभावात् । न हि तदा वेदाऽप्रामाण्यानभ्युपगमो वेदप्रामाण्याभ्युपगमसमकालीन-यावदपकृष्टज्ञानावच्छेदक-देहसम्बन्धविशेषाभावसमकालीन इति वक्तुं शक्यते ।
__ पूर्वपक्षी फलितार्थमाह- इत्थञ्चेति । यावन्तं कालं वेदत्वेन रूपेण वेदाऽप्रामाण्याभ्युपगमस्य विरहः = वेदत्वावच्छिन्नविशेष्यतानिरूपिताऽप्रामाण्यनिष्ठप्रकारतानिरूपकग्रहाभावो वेदप्रामाण्याभ्युपगमसमानकालीनयावदपकृष्टज्ञानावच्छेदकशरीरसम्बन्धाभावसमानकालीनः = वेदत्वाऽवच्छिन्नविशेष्यतानिरूपित-प्रामाण्यनिष्ठप्रकारतानिरूपकग्रहसमकालीना यावन्तोऽपकृष्टज्ञानावच्छेदकशरीरसम्बन्धविशेषाणामभावास्तत्समानતિથી અતિવ્યાપ્તિ નહિ આવે- એમ પૂર્વપક્ષીનું મંતવ્ય બે શ્લોક દ્વારા ફલિત થાય છે] (૧૫/૨૨-૨૩)
ટીકાર્થ :- વેદમાં પ્રામાણ્યના સ્વીકાર સમયે અપકૃષ્ટ જ્ઞાનના (કાગડા વગેરે ભવમાં ઉત્પન્ન થનાર જ્ઞાનના) અવચ્છેદક શરીરોના જેટલા સંબંધોનો અભાવ હોય તે સઘળાય સંબંધાભાવોનો સમકાલીન એવો જ જે અપ્રામાણ્યનો અસ્વીકાર તે જ ખરેખર શિષ્ટત્વ છે. આવું માનવાથી ૨૧મા શ્લોકમાં આપવામાં આવેલ અતિવ્યાપ્તિ દોષનું નિરાકરણ થશે. તે આ રીતે- બ્રાહ્મણના ભાવમાં વેદમાં પ્રામાણ્યનો સ્વીકાર કરવાના સમયે અપકૃષ્ટજ્ઞાનવિચ્છેદક કાકદેહનો જે પ્રાગભાવ હતો તે કાકદેહપ્રાગભાવ કાગડાના મૃત્યુ બાદ નવું શરીર ધારણ ન કરવાની અવસ્થામાં હાજર ન હોવાથી અતિવ્યાપ્તિ નહિ આવે. આ રીતે ફલિત એ થાય છે કે વેદ તરીકે વેદમાં અપ્રામાણ્યનો અસ્વીકાર જેટલા કાળ સુધી વેદપ્રામાણ્યસ્વીકારને સમકાલીન એવા અપકૃષ્ટજ્ઞાનના અવચ્છેદક થનાર શરીરના સંબંધના તમામ અભાવને સમકાલીન હોય १. '...देहनां' इत्यशुद्धः पाठो हस्तप्रतौ । २. ....दप्रकृ...' इति मुद्रितप्रतौ पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org