SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ • उपचारनियामकोपदर्शनम् • १०३३ त्रस्य शिष्टत्वस्याऽन्यत्राऽपि' अनपायत्वात् । न चैवं शिष्टत्वस्याऽतीन्द्रियत्वेन दुर्ग्रहत्वाच्छिष्टाचारेण प्रवृत्त्यनापत्तिरिति शङ्कनीयं, प्रशम-संवेगादिलिङ्गस्तस्य सुग्रहत्वात् । _ 'दोषा रागादय एव तेषां च दिव्यज्ञानादर्वाक् न क्षयमुपलभामहे । शिष्टत्वस्य अन्यत्र = देशविरतादौ अपि अनपायत्वात् = निराबाधत्वात् । कृत्स्नदोषक्षये कात्यून शिष्टत्वम्, आंशिकदोषक्षये चांशतः शिष्टत्वमिति भावः । इदञ्च निश्चयनयाऽभिप्रायेणोक्तम् । ___व्यवहारनयाऽभिप्रायेण तु सम्यग्दृष्टावपि कृत्स्नमेव शिष्टत्वम्, वनैकदेशे वनोपचारवत् । न चैवमपुनर्बन्धकेऽप्यंशतः शिष्टत्वापत्तिरिति वक्तव्यम्, तस्य अवेद्यसंवेद्यपदस्थतया तद्गतस्य दोषक्षयस्य तात्त्विकव्यवहारनयेनाऽप्रधानत्वात् । अत एव न तत्रैतन्नयेनोपचारादपि शिष्टत्वं पारमार्थिक व्यवहर्तुं युज्यते । न ह्येकस्मिन् तन्तौ पटोपचारो भवति किन्तु कतिपयैः तन्तुभिहीन एव पटे । यथोक्तं जिनभद्रगणिक्षमाश्रमणेन विशेषावश्यकभाष्ये → जुत्तो व तदुवयारो देसूणे न उ पएसमेत्तम्मि । जह तंतूणम्मि पडे पडोवयारो न तंतुम्मि ।। 6 (वि.आ.भा.२३४७) इति । न च एवं = शिष्टत्वस्य दोषक्षयवत्त्वात्मकत्वे शिष्टत्वस्य अतीन्द्रियप्रतियोगिघटिततया अतीन्द्रियत्वेन हेतुना दुर्ग्रहत्वात् = अर्वाग्दर्शिभिरज्ञेयत्वात् शिष्टाचारेण लिङ्गेन प्रवृत्त्यनापत्तिः = शिष्टत्वानुमितिजन्यशिष्टत्वव्यवहारानुपपत्तिः स्यात्, न हि तत्प्रकारकज्ञानविरहे तत्पदप्रयोगः सम्भवति, उन्मत्तप्रलापापत्तेरिति शङ्कनीयम्, प्रशम-संवेगादिलिङ्गः, आदिपदेन निर्वेदाऽनुकम्पाऽऽस्तिक्यादिग्रहणं, तस्य = अतीन्द्रियस्याऽपि शिष्टत्वस्य सुग्रहत्वात् = सौकर्येणाऽनुमेयत्वात् । प्रयोगस्त्वत्रैवं - अयं पुमान् शिष्टः प्रशमादिसमन्वितत्वात्, सम्प्रतिपन्नवदिति । यतो यतो दोषात् सम्यग्दृष्टिर्निवर्तते तत्तदोषनिवृत्तिः तत्तल्लिङ्गेनाऽनुमीयत एव । एतेन → यतो यतो निवर्तेत विमुच्यते ततस्ततः 6 (श्री.भा.१/२१/१८) इति श्रीमद्भागवतवचनमपि व्याख्यातम् । प्रकृते → शिष्टाः खलु विगतमत्सराः निरहङ्काराः कुम्भीधान्याः अलोलुपा दम्भ-दर्पलोभ-मोह-क्रोधविवर्जिताः - (बौ.ध.१/१/५) इति बौधायनधर्मसूत्रमपि स्मर्तव्यम् । ननु हिंसाऽनृताद्या विराधनात्वेन प्रसिद्धाः, दोषाः तु रागादय एव । तेषां च = रागादीनां हि दिव्यज्ञानात् = ऋतम्भराऽपराभिधानात् केवलज्ञानात् (स्याद्वादकल्पलता-स्त.१/श्लो.२१/पृ.८३) यद्वा વગેરેમાં પણ નિરાબાધ જ છે. અહીં એવી શંકા થઈ શકે છે કે – આ રીતે આંશિક દોષક્ષયથી વિવિધ પ્રકારનું શિષ્ટત્વ માનવામાં આવે તો તેવું શિષ્યત્વ તો અતીન્દ્રિય હોવાથી તેનો બોધ થવો સામાન્ય જીવો માટે મુશ્કેલ બનશે. તેથી શિષ્ટાચાર વડે શિષ્ટત્વનો વ્યવહાર નહિ થઈ શકે. પરંતુ આ શંકા નિરાધાર હોવાનું કારણ એ છે કે પ્રશમ, સંવેગ, વૈરાગ્ય વગેરે ચિહ્નો વડે શિષ્ટત્વનું જ્ઞાન સુકર છે. મતલબ કે રાગાદિ દોષો અતીન્દ્રિય હોવાથી દોષક્ષયસ્વરૂપ શિષ્ટત્વ અતીન્દ્રિય તો જરૂર છે જ. તેમ છતાં શિખવનું કાર્ય શમ, સંવેગ, નિર્વેદ વગેરે છે. તેથી જેમ ધૂમ દ્વારા અગ્નિનું અનુમાન થઈ શકે છે તેમ શમ, સંવેગ વગેરે ચિહ્નો દ્વારા = કાર્ય દ્વારા કારણભૂત શિષ્ટત્વનું અનુમાન થવામાં કોઈ બાધ નથી.) શંકા - દોષો તો રાગ, દ્વેષ વગેરે જ છે. અને દિવ્યજ્ઞાનની ઉત્પત્તિ પૂર્વે તો રાગાદિનો ક્ષય १. मुद्रितप्रतिषु 'अपि' नास्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004941
Book TitleDwatrinshada Dwatrinshika Prakran Part 4
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages378
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy