________________
९३०
• मुक्त्यद्वेषे सति भवभयभगः • द्वात्रिंशिका-१३/२८ अस्मिन् सत्साधकस्येव नास्ति काचिद् बिभीषिका । 'सिद्धरासन्नभावेन प्रमोदस्यान्तरोदयात्।।२७।। चरमावर्तिनो जन्तोः सिद्धेरासन्नता ध्रुवम् । भूयांसोऽमी व्यतिक्रान्तास्तेष्वेको बिन्दुरम्बुधौ ।।२८।। ___ तस्य स्वल्पः कर्मबन्धो भवन्नपि न तथाविधभवभयाय सम्पद्यत इति दर्शयन्नाह- 'अस्मिन्निति । अस्मिन् = दर्शितमुक्त्यद्वेषे सति अस्य सत्साधकस्येव = तथाविधां विद्यां सम्यक् साधयितुं प्रवृत्तस्य पुंस इव काचित् चरमा सन्निहिताऽपि बिभीषिका वेतालादिदर्शनस्थानीया तद्दर्शनोत्थापितभीतिस्थानीया वा चरमावर्तकर्मबन्धरूपा दीर्घतमस्थितिकक्लिप्टकर्मबन्धस्वरूपा वा नास्ति, सत्यपि वा कथञ्चिद् मन्दतमा सा न खेदाय सम्पद्यते । अत्र हेतुमाह- सिद्धेः = दृष्टान्ते विद्यानिष्पत्तेः दार्टान्तिके च मुक्तेः आसन्नभावेन = सन्निहितत्वेन प्रमोदस्य = अनिर्देश्यस्य हर्षस्य आन्तरोदयात् = अन्तःकरणे समुच्छ-लनात् । ततश्च खेदः कुतो लभतेऽवकाशम् ? यथोक्तं योगबिन्दौ → सत्साधकस्य चरमा समयाऽपि बिभीषिका । न खेदाय यथाऽत्यन्तं तद्वदेतद्विभाव्यताम् ।। सिद्धेरासन्नभावेन यः प्रमोदो विजृम्भते । चेतस्यस्य कुतस्तेन खेदोऽपि लभतेऽन्तरम् ?।।
6 (यो.बि.१७३/१७४) इति । विद्यासिद्धिस्तु न महाऽर्थसिद्धिरात्यन्तिकी वा, भूत्वाऽपि विनाशात् । अतः तद्गोचरः प्रमोदोऽपि न तत्त्वतः सतां प्रशंसाऽऽस्पदम् । मुक्तिस्तु तद्विपरीतेति सर्वाऽतिशायिप्रमोदाऽऽस्पदं सताम् । यथोक्तं योगबिन्दौ → न चेयं महतोऽर्थस्य सिद्धिरात्यन्तिकी न च । मुक्तिः पुनर्रयोपेता सत्प्रमोदाऽऽस्पदं ततः।। ( (यो.बिं. १७५) इति । 'इयं = विद्यादिसिद्धिः' ।।१३/२७।।।
ननु सन्निहितायां मुक्तौ स्यादेतत् । परं तत्सन्निधानमप्यसम्भाव्यमस्येत्याशङ्कायामाह- 'चरमेति । चरमावर्तिनः = चरमपुद्गलपरावर्तभाजो जन्तोः = जीवस्य सिद्धेः = कर्ममुक्तेः आसन्नता = अतीवाऽभ्यर्णवर्तिता ध्रुवं = निश्चितम्, यतो भूयांसः = अतीव बहवः अमी = पुद्गलपरावर्ता व्यतिक्रान्ताः = अनादौ संसारे व्यतीताः, तेषु व्यतीतपुद्गलाऽऽवर्तेषु एकः चरमः पुद्गलपरावर्तः अम्बुधौ बिन्दुः = बिन्दुतुल्यः । यथोक्तं योगबिन्दौ → आसन्ना चेयमस्योच्चैश्चरमावर्तिनो यतः । भूयांसोऽमी
ગાથાર્થ :- પ્રસ્તુત મુક્તિઅદ્વેષ હોય તો સિદ્ધિ નજીક હોવાથી અંતઃકરણમાં આનંદ ઉછળવાના કારણે સસાધકની જેમ કોઈ ભય ધર્માત્માના અંદરમાં પ્રગટતો નથી. (૧૩/૨૭)
જ મુક્તિઅદ્વેષથી નિર્ભયતા પ્રગટે જ વિશેષાર્થ:- જેમ સફળ વિદ્યાસાધકને વિદ્યાસિદ્ધિ નજીક આવે તે અવસરે અંતઃકરણમાં અવર્ણનીય આનંદ ઉછળવાથી ભૂત-પ્રેત વગેરેનો ભય લાગતો નથી તેમ મોક્ષ નજીક આવવાના લીધે અંતરમાં સ્વાભાવિક આનંદ અને “હવે મારે બહુ રખડપટ્ટી કરવાની નથી, મારું ભવભ્રમણ હવે સીમિત છે”આ પ્રકારનો આત્મવિશ્વાસ પ્રગટવાથી દીર્ઘતમ કર્મબંધ વગેરે સ્વરૂપ ભય ચરમાવર્તી મુક્તિઅષી વૈરાગી वने २डेतो नथी. (१3/२७)
ગાથાર્થ :- “ચરમાવર્તી જીવનો મોક્ષ ખૂબ નજીક છે'- આ વાત ચોક્કસ છે. ઘણા બધા પુદ્ગલ પરાવર્તે પસાર થઈ ગયા. તેમાં આ એક છેલ્લો પુદ્ગલ પરાવર્ત એટલે સિધુમાં એક બિંદુ છે.(૧૩/૨૮) १. हस्तादर्श 'सिधरसेन्न...' इत्यशुद्धः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org