________________
• यतिद्वेषस्य बोधिबीजदाहकता •
९२७ ततो व्यसनोपहतौ चौर्यपरायणावभवताम्, अन्यदा ग्रामान्तरं गत्वा गा अपहृतवन्तौ, ततस्ताः स्वस्थानं नयन्तौ दण्डपाशिकान् पश्चाल्लग्नान् विज्ञाय तद्भयात्पलायमानौ गिरिगह्वरे प्राविशताम्, शैलगुहायां चाऽऽतापयन्तं महातपस्विनमपश्यताम, ततस्त्वं संवेगमागतोऽवोचः यथा 'सुलब्धमस्य जन्म योऽयं परित्यक्तसकलपुत्र-कलत्र-मित्रादिसम्बन्धः सन्तोषसुखसागरावगाढो धर्मनिरतचित्तो विषयविरतः स्वर्गाऽपवर्गसंसर्गाय तपस्यति, मादृशास्त्वधन्या उभयलोकगर्हितमनर्थफलं क्लेशबहुफलं च चौर्यमाश्रिता' इत्येवंविधा साधु साधुप्रशंसा भवतो बोधिबीजमजनि, इतरस्य तु यतिद्वेषो बोधिबीजदाही सञ्जातः । इदं भवतोर्बोधेर्भावाऽभावकारणमि"ति (अ.प्र.वृ. २३/६) ।
तथापि पञ्चाशकोपदेशपदवृत्त्यनुसारेणाऽत्र गुणाद्वेषो वसुपालस्योक्त इत्यवधेयम् । → जो च्चिय सुहभावो खलु सव्वन्नुमयम्मि होइ परिसुद्धो। सो च्चिय जायइ बीयं बोहीए तेणणाएण ।। - इति पञ्चाशकश्लोकस्य (पञ्चा.७/८वृ.) वृत्तौ नामोल्लेखमृते यत्स्तेनोदाहरणमुपदर्शितं तदस्यैवाऽवसेयम् । तवृत्तौ च 'अन्यः पुनरुदासीनो भवति स्म मुनीनभि' (पञ्चा.७/८/वृत्तिश्लोक ९) इत्येवं यतीन् प्रति वसुपालस्याऽद्वेषो दर्शितः। → सुव्वइ य तेणणायं एत्थं बोहीए पत्तिविग्धकरं । तं चेव उ कुसलेहिं भावेयव्वं पयत्तेणं ।। (उप.पद.२२६) इति उपदेशपदगाथासूचितं वसुपालोदाहरणं तवृत्तौ मुनिचन्द्रसूरिभिः →
समस्ति निखिलक्षोणीकामिनीमण्डनोपमा । कौशांब्याख्या पुरी शम्ब-पाणिपत्तनभूतिभाक् ।।१।। तत्रैकच्छत्रवसुधापरिपालनविश्रुतः । राजा जितारिनामाऽभूत्, सद्भूतगुणसन्निधिः ।।२।। श्रेष्ठिनौ तत्र सुष्ठुश्रीभाजनं जनपूजितौ । अभूतां धन-यक्षावावौदार्यादिगुणाऽन्वितौ ।।३।। धनस्य धर्मपालोऽभूनन्दनः कुलनन्दनः । वसुपालश्च यक्षस्य, वसुवृद्धिविधायकः ।।४।। जन्मान्तरीयसंस्कारादाबालत्वात्तयोरभूत् । अत्यन्तमित्रताभावो, लोकाऽऽश्चर्यविधायकः ।।५।। रोचते च यदेकस्य, तदन्यस्याऽपि रोचते । ततो लोके गतौ ख्यातिमेकचित्ताविमाविति ।।६।। ततः कुलोचितं कर्म, कुर्वतोर्यान्ति वासराः । अन्यदा भुवनाऽऽनन्दी, प्राप्तस्तत्र जिनेश्वरः ।।७।। भगवान् श्रीमहावीर इक्ष्वाकुकुलनन्दनः । गीर्जलैर्जनसन्तापशमनेऽम्भोदसन्निभः ।।८।। विदधुस्तस्य गीर्वाणा, व्याख्याभूमि मनोहराम् । तत्राऽसौ धर्ममाचख्यौ, ससुराऽसुरपर्षदि ।।९।।
तमागतं समाकर्ण्य, कौशाम्बीवासिनो जनाः । राजादयः समाजग्मुर्वन्दितुं तत्पदाऽम्बुजम् ।।१०।। છે. જ્યારે વસુપાલના જીવને અષ્ટકપ્રકરણવૃત્તિ મુજબ સાધુ પ્રત્યે દ્વેષ થાય છે અથવા ઉપદેશપદવૃત્તિ મુજબ અને પંચાશકવૃત્તિ અનુસાર બહુમાનભાવ થતો નથી. વસુપાલનો જીવ ચોર અવસ્થામાં તે સાધુની પ્રશંસા કરતો નથી. બોધિબીજની વાવણી કરતો નથી. તેથી જિનવાણીરૂપી વૃષ્ટિ થવા છતાં વસુપાલને સમકિતનો અંકુરો ન ફૂટ્યો. બીજ વાવ્યા વિના એકલા વરસાદથી ઘઉં, બાજરો વગેરે અનાજ કઈ રીતે ઉગે? ધનપાલને બોધિબીજ વાવેલ હોવાથી વીરવાણી વૃષ્ટિ થતાં સમકિતનો અંકુરો પ્રગટ્યો.
આનાથી ફલિત થાય છે કે ગુણઅષ પણ સદનુષ્ઠાનરાગને પ્રગટાવવામાં પ્રયોજક બને તો જ તહેતુઅનુષ્ઠાનનો સંપાદક બને. અન્યથા નહિ. આથી અમે પૂર્વે જે કહેલું હતું તે વ્યાજબી જ હતું કે - અબાધ્યફલાપેક્ષા વિનાનો મુક્તિઅદ્વેષ - મુક્તિમાર્ગદ્વેષ-મુક્તિમાર્ગયાત્રીઅદ્વેષ સદનુષ્ઠાનરાગને પ્રગટાવવા દ્વારા તહેતુઅનુષ્ઠાનનું સંપાદક બને છે. તેવો જ મુક્તિઅદ્વેષ સંસારના ઉચ્છેદનું પ્રયોજક
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org