________________
६१६
• पर्यायव्युत्पत्तिप्रदर्शनम्
द्वात्रिंशिका - ८/२५
तद्वृत्तिस्त्वेवम् नित्यश्चासावनित्यश्चेति नित्याऽनित्यः, तत्र = नित्यानित्ये आत्मनि अभ्युपगम्यमाने हिंसादीनि घटन्त इति सम्बन्धः । न हि एकान्तेन नित्यमनित्यं वा वस्तु किमपि कस्यापि कार्यस्य करणक्षमम्। तथाहि- मृत्पिण्डस्य कार्यं घटो न भवति, एकरूपत्वेनाऽनतिक्रान्तमृत्पिण्डभावत्वात्, मृत्पिण्डवत्। मृत्पिण्डत्वाऽतिक्रमे चाऽनित्यत्वप्राप्तेः । तथा मृत्पिण्डस्य कार्यं घटो न भवति, 'सर्वथैवानुगमाऽभावेनातिक्रान्तमृत्पिण्डत्वलक्षणपर्यायत्वात्, पटवत् । मृत्पिण्डत्वलक्षणपर्यायाऽनतिक्रमाऽभ्युपगमे चानुयायित्वेन नित्यानित्यत्वं वस्तुनः स्यादिति । आह च “ घटः कार्यं न पिण्डस्य, पिण्डभावाऽनतिक्रमात् । पिण्डवत्पटवच्चेति, स्यात् क्षयित्वादिरन्यथा ” । । ( ) तदेवं नित्याऽनित्यमेव वस्तु कार्यकरणक्षममिति । ननु नित्याऽनित्यत्वधर्मयोर्विरुद्धत्वात्कथमेकाऽधिकरणत्वम् ? अत्रोच्यते यथा ज्ञानस्य भ्रान्तत्वाऽभ्रान्तत्वे परमार्थ-संव्यवहारापेक्षया न विरुद्धे एवं द्रव्यतो नित्यत्वं पर्यायतश्चानित्यत्वं न विरुद्धम् । न च द्रव्यपर्याययोः परस्परं भेदः, यतः यदेव वस्त्वनपेक्षितविशिष्टरूपं द्रव्यमिति व्यपदिश्यते तदेवाऽपेक्षितविशिष्टरूपं पर्याय इति । ' तथा ' इति वाक्यान्तरोपक्षेपार्थः देहात् = शरीरात्, किमित्याह, भिन्नः =व्यतिरिक्तः स चासावभिन्नश्चाव्यतिरेकी = भिन्नाभिन्नस्तत्र, भिन्नाऽभिन्न एव च जीवः शरीरात्, तथैवोपलभ्यमानत्वात् । तथा हि- जीवस्याऽमूर्तत्वाद्देहस्य च मूर्तत्वान्मूर्ताऽमूर्तयोश्चाऽत्यन्तविलक्षणत्वाद् भेदस्तयोः। देहस्य स्पर्शने च जीवस्य वेदनोत्पत्तेरभेदश्चेति । आह च “ जीवसरीराणं पि हु, भेयाभेओ तहोव -
भाओ । मुत्ताऽमुत्तत्तणओ, छिक्कंमि पवेयणाओ य ।। ” ( समरादित्यकथा भव- ८ /पृ.७९८) सर्वथा भेदे हि शरीरकृतकर्मणो भवान्तरेऽनुभवाऽनुपपत्तिः स्यात् । अभेदे च परलोकहानिः शरीरनाशे जीवनाशादिति । चशब्दः अनुक्तसमुच्चये । ततश्च सदसती इत्याद्यपि द्रष्टव्यम् । आह च- 'सन्तस्स सरूवेणं, पररूवेणं तहा असन्तस्स । हंदि विसिवृत्तणओ, होन्ति विसिट्टा सुहाईया ।।' (समरादि. भव.८/पृ.७९३)” विशिष्टाः प्रतिप्राणिवेद्याः । तत्त्वत इति परमार्थतो नित्याऽनित्यादौ न पुनः कल्पनया, पारमार्थिकत्वं च नित्याऽनित्यत्वादीनां दर्शितमेव । घटन्ते युज्यन्ते आत्मनि जीवे न्यायात् =परिणामिस्वरूपस्यात्मनोऽपराऽपरपर्यायसम्पदुपपत्तिलक्षणया नीत्या हिंसादीनि मोक्षसुखादीनि । कथमित्याह अविरोधतः अविरोधेन, एकान्तपक्षे ये हिंसादिष्वभ्युपगम्यमानेषु विरोधा दर्शितास्तत्परिहारेणेति भावः ← (अ. वृत्ति. १६ / १ ) इति ।
=
आश्रव-संवर-बन्ध
अपेक्षितविशिष्टरूपं च वस्तु पर्याय इति तु युक्तमेव सर्वात्मना तथा तथाभवनात् । तदुक्तं द्वादशारनयचक्रवृत्तौ श्रीसिंहसूरिगणिक्षमाश्रमणैः एषु च षट्सु नयेषु पर्यवशब्दः भाववचनः, समन्ताद् भवनात् पर्यवः, सर्वात्मना भवनात् पर्यायशब्दः समन्ताद् गतिवचनः समन्ताद्गमनपर्यायद्रव्यस्य वर्णाद्यात्मना पर्यायः, द्रव्यस्य वर्णाद्यात्मना परितो गमनात्, अयञ्च विग्रहार्थः ← ( द्वा.न. सिंहवृत्ति अ२-६/पृ.६१३)।
यत्तु किं नु खो, आवुसो गोतम, तं जीवं तं सरीरं, उद्दाहु अञ्ञ जीवं अञ्ञं सरीर'न्ति? ← ( दी. नि. १/६/३७६, पृ.१४० + १/७/३७८ - पृ. १४३ ) इति प्रश्ने समुपस्थिते सुगतेन यो खो
-
=
·
=
For Private & Personal Use Only
=
१. मुद्रितप्रतिषु 'सर्वथैवानुगमाभावेनानतिक्रान्त... मृत्पिण्डत्वलक्षणपर्यायातिक्रमाभ्युपगमे' इति पाठः । स चाऽशुद्धः प्रतिभाति । अस्माभिरपेक्षितः शुद्धः पाठोऽत्र योजितः ।
Jain Education International
www.jainelibrary.org