________________
• स्याद्वादकल्पलतासंवादः .
५९९ अनित्यैकान्तपक्षेऽपि हिंसादीनामसम्भवः । नाशहेतोरयोगेन क्षणिकत्वस्य साधनात् ॥२०॥ ____ अनित्येति । अनित्यैकान्तपक्षेऽपि = क्षणिकज्ञानसन्तानरूपाऽऽत्माऽभ्युपगमेऽपि हिंसादीनामनित्यत्वादित्यागेनाऽस्मत्सिद्धान्तप्रवेशाऽऽपातात् ।
तदुक्तं अष्टकप्रकरणे → इष्यते चेत्क्रियाप्यस्य, सर्वमेवोपपद्यते । मुख्यवृत्त्यानघं किन्तु, परसिद्धान्तसंश्रयः ।। - (अ.प्र.१४/८) इति । तद्वृत्तिस्त्वेवम् → इष्यते = अभ्युपगम्यते, चेत् = यदि, क्रियापि = काचित् शरीरसम्बन्धनादिका, क्रिया तावदिष्टैवेति प्रतिपादनार्थोऽपिशब्दः, अस्य = नित्यात्मनः, इह तदेति शेषो दृश्यः । ततश्च तदा सर्वमेव = निःशेषमेव यत्पूर्वमहिंसादिकमनुपपद्यमानतया प्रतिपादितं तत् उपपद्यते = घटते । कथमित्याह, मुख्यवृत्त्या = पारमार्थिकतया, न पुनः क्रियानभ्युपगमे इवामुख्यवृत्त्या, अनघं = निर्दोषम्, अनुपचारवृत्त्योपपद्यमानत्वात्, किन्तु = केवलमेतावान् दोषो यदुत परसिद्धान्तसंश्रयः जैनाभ्युपगतपरिणामवादाऽऽश्रयणमिति। न चैतन्निग्रहस्थानमप्यतिदुष्करमनभिनिवेशिनां मुमुक्षूणामिति। तदेवमेकान्तनित्याऽऽत्मवादिमतेऽहिंसादीनि न घटन्त इति स्थितम् + (अ.प्र.वृ.१४/ ८) इति । इत्थञ्चैकान्तनित्यात्मवादे हिंसादिविचारोऽजातपुत्रनामोत्कीर्तनन्यायमनुसरतीति स्थितम् । ततश्च 'त्यजेदेकं कुलस्यार्थे' इति न्यायेन 'न हिंस्यात् सर्वभूतानि' (छान्दो.८,कू.पु.२/१६/१,प.पु.१/५५/१,म.भा. शांति.२८४/६) इत्यादीनां भूयसीनां अहिंसादिश्रुतीनां प्रागुपदर्शितप्रतीतीनां लाघवयुक्तीनाञ्चानुग्रहाय मुच्यतां आत्मन्येकान्तनित्यत्वाऽभिनिवेश एक एव । अधिकं प्रकृतप्रमेयप्रतिपादनं लतायां = स्याद्वादकल्पलतायां शास्त्रवार्तासमुच्चयबृहट्टीकायाम् । इत्थं सर्वथानित्यात्मसाधकानां नैयायिकतर्काणां निराकरणे मीमांसकादितर्काणां प्रधानमल्लनिबर्हणन्यायेन निराकरणमवगन्तव्यम् ।।८/१९।।
नित्यैकान्तपक्षे हिंसादीनामसम्भवमुक्त्वाऽनित्यैकान्तपक्षे तमेवाह ‘अनित्येति । इयमपि कारिकोपदर्शिता ग्रन्थकृता अध्यात्मसारे (अ.सा.१२/३३) । → सौगताः किलेत्थं प्रमाणयन्ति ‘सर्वं सत् क्षणिकं यतः सर्वं तावद् घटादिकं वस्तु मुद्गरसन्निधौ नाशं गच्छत् दृश्यते । तत्र येन स्वरूपेणान्त्यावस्थायां घटादिकं विनश्यति तच्चेत्स्वरूपमुत्पन्नमात्रस्य विद्यते तदानीमुत्पादानन्तरमेव तेन नष्टव्यमिति व्यक्तमस्य क्षणिकत्वम् । अथेदृश एव स्वभावस्तस्य हेतुतो जातो यत् कियन्तमपि कालं स्थित्वा विनश्यति । एवं तर्हि मुद्गरादिसन्निधानेऽपि एष एव तस्य स्वभाव इति पुनरप्यनेन तावन्तमेव कालं स्थातव्यमिति नैव विनश्येदिति सोऽयमदित्सोः वणिजः प्रतिदिनं पत्रलिखितश्वस्तनदिनभणनन्यायः - (स्या.मं.पृष्ठ-१२८) इति व्यक्तं स्याद्वादमञ्जर्यां सौगतदर्शनवार्तायाम् । परमेवं हिंसादीनां मुख्य
૪ સર્વથા ક્ષણિપક્ષમાં હિંસાદિનો અસંભવ છું ગાથાર્થ :- એકાન્ત ક્ષણિકત્વ પક્ષમાં પણ હિંસા વગેરેનો સંભવ નથી. કારણ કે નાશકારણવિરહરૂપ डेतु द्वारा क्षत्पनी सिद्धि ४२वामां आवे छे. (८/२०)
ટીકાર્ય :- ક્ષણિકવાદી બૌદ્ધ વિદ્વાનો આત્માને ક્ષણિક જ્ઞાનની સંતતિ = પરંપરાસ્વરૂપ માને છે.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org