________________
५९४
• देहस्य भोगायतनत्वविचारः • द्वात्रिंशिका-८/१९ नत्वात्, अन्यथा तस्य वैयर्थ्यादिति + (न्या.कं.) गदितं, तदसत्, अन्यशरीरस्य तत्रापि सत्त्वात् ज्ञानोत्पत्त्यापत्तेः । न च स्वशरीराऽभावान्नायं दोष इति वाच्यम्, स्वसंयुक्तत्वसम्बन्धेन तस्यापि स्वीयत्वात् । तथाहि- अधिकृतात्मनो हि स्वकीयेनापि शरीरेण सह संयोग एव सम्बन्धो नैयायिकादिमते सम्भवति, न त्वस्मत्पक्ष इव कथञ्चित्तादात्म्यम् । स चात्मनः सर्वगतत्वेन परकीयदेहेनाऽपि साकमस्ति । ततश्चाधिकृतात्मा यथा स्वदेहे सुख-दुःखानि भुङ्क्ते तथा परकीयदेहेऽपि भुज्जीत । यदि वाऽधिकृतात्मनो यथा स्वदेहेन साधु संयोगः तथा परकीयात्मनामपि । ततश्च यथा ते स्व-स्वदेहेषु सुख-दुःखानि भुञ्जते तथाऽधिकृतात्मशरीरेऽपि भुञ्जीरन् ।
ननु स्वाऽदृष्टोपगृहीतदेहविरहान्नेयमापत्तिरिति चेत्, तर्हि तज्ज्ञानादिहेतुत्वेन तस्यैवोपजीव्यत्वात्, तस्य च शरीरव्यापितयाऽऽत्मनोऽपि तथात्वसिद्धिः । एतेन → यथा राहुरदृश्योऽपि दृश्यते चन्द्रमण्डले । तद्वत्सर्वगतोऽप्यात्मा लिङ्गदेहे हि दृश्यते ।। 6 (शि.गी.१०/३३) इति शिवगीतावचनमपि निरस्तम्, 'गन्धस्याऽपि सर्वगतस्य पृथिव्यामेवाऽभिव्यक्तिः' इति वदतामपराजेयत्वापत्तेः । अत एवोक्तं विशेषावश्यकभाष्ये → जीवो तणुमेत्तत्थो जह कुंभो तग्गुणोवलंभाओ । अहवाऽणुवलंभाओ भिन्नम्मि घडे पडस्सेव ।। 6 (वि.आ.भा.१५८६) इति । एतदनुसारेणोक्तं श्रीहेमचन्द्रसूरिभिः अन्ययोगव्यवच्छेदद्वात्रिंशिकायां → यत्रैव यो दृष्टगुणः स तत्र कुम्भादिवद् निष्प्रतिपक्षमेतत् । तथापि देहाद् बहिरात्मतत्त्वमतत्त्ववादोपहताः पठन्ति ।। - (अन्ययो.द्वा.९)। देहमानतारतम्येऽपि जीवस्तु सम एव, → हत्थिस्स य कुंथुस्स य समे चेव जीवे - (भ.सू.७/८) इति व्याख्याप्रज्ञप्तिवचनात् । तदुक्तं धर्मसङ्ग्रहण्यां अपि → ण य सव्वगतो जीवो तणुमेत्ते लिंगदरिसणाओ तु । असव्वगते संसरणं कहं ? तेण सरीरमाणो सो।। आसज्ज कुंथुदेहं तत्तियमेत्तो गयम्मि गयमेत्तो । ण य संजुज्जति जीवो संकोय-विकोयदोसेहिं ।। जह दीवो महति घरे पलीवितो तं घरं पगासेति । अप्पप्पतरे तं तं एवं जीवो सदेहाई ।।
6 (धर्म.३६४-३६६) इति ।
अथ शक्त्या ज्ञानात्मना वा विभुत्वमात्मनोऽभिमतम् चेत् ? तत्राऽस्माकमपि सम्मतिरेव, केवलिसमुद्घातादावात्मनो व्यापकत्वाभ्युपगमात्, ज्ञानात्मनाऽऽत्मनो लोकाऽलोकव्यापित्वाच्च । तदुक्तं ग्रन्थकृतैव न्यायखण्डखाये → शक्त्या विभुः स इह लोकमितप्रदेशो, व्यक्त्या तु कर्मकृतसौवशरीरमानः । यत्रैव यो भवति दृष्टगुणः स तत्र, कुम्भादिवद्विशदमित्यनुमानमत्र ।। - (न्या.खं.खा.७०) इति । तदुक्तं श्रीबुद्धिसागरसूरिभिः अपि कृष्णगीतायां → नित्यः सर्वगतः पूर्णो ज्ञानेन व्यापकः प्रभुः (कृ.गी.५७) इति । ___आत्मनो व्यक्त्या व्यापकत्वे तु → शक्त्या आत्मा सर्वत्राऽवस्थितः स्वयंज्योतिः शुद्धो बुद्धः - (हंसो.२) इति हंसोपनिषद्वचनानुपपत्तिरपि दुर्वारैव । सर्वदा सर्वथात्मनो विभुत्वे → अङ्गुष्ठमात्रः पुरुषः अङ्गुष्ठं च समाश्रितः - (म.नारा.१६/३) इति महानारायणोपनिषद्वचनं → अङ्गुष्ठमात्रः पुरुषोऽन्तरात्मा सदा जनानां हृदये संनिविष्टः - (कठो.३/१७, श्वेता.३/१३) इति कठोपनिषत्श्वेताश्वतरोपनिषद्वचनं → अणोरणीयान महतो महीयानात्मा 6 (पार.९/3. श्वेता.३/२०. कठो १/२। ...
w.janelibrary.org