SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ • निषिद्धकर्मकारिणो दोषपञ्चकाssवेदनम् • ४७९ न, 'प्राप्ते तस्या: २ = निवृत्तेः निषेधेन', 'निषिद्धकर्मकरणे पापप्रचयस्यैव सम्भवात्तस्या महाफलत्वाऽनुपपत्तेः । यत एतदुदाहृतं भवद्ग्रन्थे ।।१४।। यथाविधि नियुक्तस्तु यो मांसं नात्ति वै द्विजः । स प्रेत्य पशुतां याति सम्भवानेकविंशतिम् ।। १५ । । यथाविधीति । यथाविधि = शास्त्रीयन्यायाऽनतिक्रमेण नियुक्तः = गुरुभिर्व्यापारितः, तुः पुन = 'मां स भक्षयिता' इत्यनेन प्रतिषिध्यतां, तन्निवृत्तेरेव महाफलत्वं भविष्यतीति चेत् ? उत्तरपक्षयति नेति । प्राप्ते शास्त्रविधिना कर्तव्यत्वेनोपस्थिते सति निवृत्तेः शास्त्रविहितप्रतियोगिकनिवृत्तेः निषेधेन = भवदीयग्रन्थे प्रतिषेधकरणेन प्रोक्षितमांसभक्षणनिवृत्तेर्भवच्छास्त्रानुसारेण महाफलत्वाऽसम्भवात्, प्रत्युत निषिद्धकर्मकरणे = निषिद्धस्य प्रोक्षितमांसादननिवृत्तिलक्षणस्य कर्मणः करणे पापप्रचयस्यैव सम्भवात् तस्याः = प्रोक्षितपलादननिवृत्तेः महाफलत्वानुपपत्तेः 'निवृत्तिस्तु महाफला' इति वृथोदितं । तदुक्तं बृहत्पराशरस्मृतौ क्षीणायुस्त्वं दरिद्रत्वमप्रजात्वञ्च रोगिता । गर्हितत्वं च लोकेषु विदुर्निषिद्धकारिणः ।। ← (बृ. परा. ६ / १७३ ) इति । साक्षेपपरिहारमेवमेवोक्तं अष्टकप्रकरणे अत्रैवासावदोषश्चेन्निवृत्तिर्नास्य सज्यते । अन्यदाऽभक्षणादत्राऽभक्षणे दोषकीर्तनात् ।। (अ.प्र. १८ / ६ ) ← इति । तद्वृत्तिस्तु अत्रैव अनन्तराभिहित एव प्रोक्षितादिविशेषणमांसभक्षणे, अन्यत्र तु दोष एव असौ = यः “न मांसभक्षणे दोषः" इत्यनेन वचसाभ्युपगतः, अदोषो दोषाभावः, चेद् = यद्येवं मन्यसे तदेतिशेषः, किं दूषणमित्याह, निवृत्तिः विरतिः, न = नैव, अस्य = मांसभक्षणस्य, सज्यते = प्राप्नोति । कुतः ? इत्याह, अन्यदा = अन्यस्मिन् प्रोक्षितादिमांसविशेषणाभावकाले, अभक्षणात् = अनभ्यवहरणात् उक्तविधिव्यतिरेकेण हि मांसं न भक्ष्यते । अतो मांसभक्षणस्याप्राप्तेर्निवृत्तिर्नास्य प्रसज्यत इत्युच्यते, प्राप्तिपूर्वको हि निषेधः सफलो भवतीति । अथ प्रोक्षितादिविशेषणसद्भावे निवृत्तिर्भविष्यतीति “ निवृत्तिस्तु महाफला ” इति वचः सफलीभविष्यतीत्यत्राह, अत्र = प्रोक्षितादिविशेषणसद्भावे, अभक्ष अनशने मांसस्य दोषकीर्तनात् = दूषणाभिधानात्, निवृत्तिर्नास्य प्रसज्यते इति प्रकृतमिति ( अ.वृ. १८/६ ) ← बोध्या ।।७/१४ ।। परकीयग्रन्थसंवादमाह - 'यथे 'ति । साम्प्रतं मनुस्मृतौ तु नियुक्तस्तु यथान्यायं यो मांसं नाऽत्ति शास्त्रीय मांसभक्षएानो ४ निषेध थाव आ रीते पए। 'निवृत्तिस्तु महाफला' आा शास्त्रवयन संगत थ ४शे. ઉત્તરપક્ષ :- ના, આમ પણ કહી શકાતું નથી. કારણ કે ભક્ષણપ્રાપ્ત એવા પ્રોક્ષિત માંસના ભક્ષણનો ત્યાગ કરવાનો તમારા શાસ્ત્રમાં નિષેધ કરેલ છે. અને આ રીતે નિષિદ્ધ કાર્ય નિષિદ્ધ એવી પ્રોક્ષિતમાંસભક્ષણનિવૃત્તિ આચરવામાં આવે તો પાપનો ઢગલો જ ભેગો થાય. માટે પ્રોક્ષિત માંસના ભક્ષણની નિવૃત્તિ મહાફળવાળી બની ન શકે. કારણ કે તમારા જ શાસ્ત્રમાં જણાવેલ છે કે (૭/૧૪) ગાથાર્થ :- વિધિમુજબ નિયુક્ત થયેલ જે બ્રાહ્મણ માંસ ખાતો નથી તે એકવીસ જન્મ સુધી પરલોકમાં पशुपशाने पामे छे. (७/१५) = = -- = = * मेडवीस ४न्म सुधी पशुता ! * વેદશાસ્ત્રની મર્યાદાનું ઉલ્લંઘન કર્યા વિના ગુરુઓ વડે આદેશ કરાયેલ જે બ્રાહ્મણ ટીકાર્થ १. हस्तादर्शे 'प्राप्तत' इत्यशुद्धः पाठः । २ मुद्रितप्रतौ ' तस्याः' पदं नास्ति । ३. मुद्रितप्रतौ 'निषेध नि...' इति त्रुटितोऽशुद्धश्च पाठ: । ४. हस्तादर्शे 'निषिद्धकरण' इति पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004939
Book TitleDwatrinshada Dwatrinshika Prakran Part 2
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages372
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy