________________
• गुणिपारतन्त्र्ये गुणसामग्ग्रम् •
४४३
स्वेच्छेति । बालानां = अज्ञानिनां स्वेच्छाचारे च सति ( मार्गबाधया = ) मार्गस्य बाधया 'अप्रधानपुरुषोऽयं जैनानां मार्गः' इत्येवं जनप्रवादरूपया मालिन्यं भवति मार्गस्य, तेन हेतुना गुणवत्पारतन्त्र्यत एव गुणानां ज्ञानादीनां सामग्र्यं = पूर्णत्वं भवति ।। ३१ । इत्थं विज्ञाय मतिमान् यतिर्गीतार्थसङ्गकृत् । त्रिधा शुद्ध्याऽऽचरन् धर्मं परमानन्दमश्नुते ।। ३२ ।।
गुणवत्मारतन्त्र्यविरहापायमाह - 'स्वेच्छे'ति । अज्ञानिनां कदाग्रहग्रस्तविषयप्रतिभासवतां द्रव्यलिङ्गिनां स्वेच्छाचारे च = प्रधानपुरुषोपदेशवशवर्त्तित्वविरहे सति मार्गस्य मोक्षमार्गप्रतिपादकस्य जिनशासनस्य ‘अप्रधानपुरुषोऽयं जैनानां मार्गः = आचारविचारप्रवाह:' इत्येवं जनप्रवादरूपया बाधया हीनया मार्गस्य जिनशासनस्य मालिन्यं भवति । तस्य च सर्वोपायेन वर्जनीयत्वमेव । तदुक्तं
अष्टकप्रकरणे →
=
अतः सर्वप्रयत्नेन मालिन्यं शासनस्य तु । प्रेक्षावता न कर्तव्यं प्रधानं पापसाधनम् ।। अस्माच्छासनमालिन्याज्जातौ जातौ विगर्हितम् । प्रधानभावादात्मानं सदा दूरीकरोत्यलम् ।। ← (अ.प्र.२३/५-६ ) इति । तेन हेतुना गुणवत्पारतन्त्र्यत एव 'अहो विनयव्याप्तमिदं जैनशासनमि'ति मार्गप्रशंसया परेषां सम्यग्दर्शनाद्याधानद्वारा स्वकीयानां ज्ञानादीनां गुणानां पूर्णत्वं भवति ।। ६ / ३१ ।। प्रकृतप्रकरणमुपसंहरन्नाह- ' इत्थमिति । त्रिधा शुद्ध्या तत्त्वसंवेदनज्ञान-सर्वसम्पत्करीभिक्षा-ज्ञानगर्भवैराग्यसेवनप्रकारेण मनोवाक्कायविशुद्ध्या । तन्त्रान्तरप्रसिद्धेन उपदेशपददर्शितेन (गा. ९२२) तैलपात्रधरन्यायेनाऽप्रमादभावतो धर्मं यतिधर्मं आचरन् परमानन्दं उपाध्यजनितत्वे सति उपाध्यजनकं शाश्वतिकं मञ्जुलं सुखं अश्नुते । उपलक्षणात् संयम - तपः प्रभृतीनामपि ग्रहणमत्र बोद्धव्यम् । तदुक्तं दशवैकालिकनिर्युक्तौ → सज्झाय - संजम - तवे वेआवच्चे अ झाणजोगे अ । जो रमइ, नो रमइ अस्संजमम्मि सो वच्च सिद्धिं ।। ← (द.वै. नि. ३६६ ) इति । ततश्च साधुसामग्रयकृते तत्त्वसंवेदनज्ञानादिना देहादितो विविच्य स्वात्मनो निरुपाधिकपरमानन्दमयस्वरूपं विभावनीयं तदाविर्भावकृते च यतितव्यमित्यत्र तात्पर्यम् । प्रकृते → तमस्मिन् प्रत्यागात्मानं धिया योगप्रवृत्तया । भक्त्या विरक्त्या ज्ञानेन विविच्यात्मनि चिन्तयेत् ।। ← (क.दे.सं.२ / ७२) इति कपिलदेवहूतिसंवादवचनमप्यनुयोज्यमुपलब्धसमयसारैर्यथातन्त्रमिति शम् ।।६ / ३२ ।।
ટીકાર્થ :- અજ્ઞાની બાલકક્ષાના સાધુઓ સ્વચ્છંદ રીતે પ્રવૃત્તિ કરે તો ‘આ જૈનોનો ધર્મમાર્ગ નાયક વગરનો છે.’ આ રીતે લોકોમાં જિનશાસનની નિંદા થવાથી જિનશાસનનું તેજ ઘટે છે. તે કા૨ણે ગુણવાનના પારતન્ત્યથી જ આત્મજ્ઞાન વગેરે ગુણો પૂર્ણ થાય છે. (૬/૩૧)
ગાથાર્થ :- આ રીતે વિશેષ પ્રકારે જાણીને જે પ્રાજ્ઞ સાધુ ખરેખર ગીતાર્થનો સંગ કરે અને ત્રણ પ્રકારની શુદ્ધિથી ધર્મનું આચરણ કરે તો પરમાનંદને પ્રાપ્ત કરે છે. (૬/૩૨)
ટીકાર્થ :- ગાથાર્થ સ્પષ્ટ હોવાથી આ ગાથાની ટીકા ટીકાકારશ્રીએ બનાવેલ નથી. (૬/૩૨) વિશેષાર્થ :- ઉપરોક્ત તમામ બાબતોને ઊંડાણથી જાણી મોક્ષમાર્ગાનુસારી ક્ષયોપશમવાળા સાધુ ગીતાર્થની નિશ્રાએ રહી તત્ત્વસંવેદન જ્ઞાન, સર્વસંપત્કરી ભિક્ષા અને જ્ઞાનગર્ભિત વૈરાગ્યને
For Private & Personal Use Only
www.jainelibrary.org
=
=
Jain Education International
=
=
=
=
=
=