________________
=
=
मायां कुर्यादित्यर्थः ।
एवमुपायप्रवृत्तावपि तयोः अबोधे त्यागोऽपि मुमुक्षोस्तत्त्वतो न त्यागः, यथा ग्लानयोः अध्वनि ग्लानीभूतयोः पित्रोरौषधार्थिनः (= ग्लानौषधार्थिनः ) तदुपकारकौषधाऽऽनयनार्थं कथञ्चित्तौ विमुच्याऽपि गच्छतः पुत्रस्य, प्रव्रज्यायास्तयोः स्वस्याऽन्येषां चोपकारहेतुत्वात् । तदिदमाह - 'सव्वहा यात्वात् । तदुक्तं धर्मबिन्दौ तथा तथोपधायोगः, दुःस्वप्नादिकथनम्, विपर्ययलिङ्गसेवा, दैवज्ञैस्तथा तथा निवेदनम्, न धर्मे माया, उभयहितमेतत् ← (ध. बि. ४ / २४-२९) इति ।
श्रीमुनिचन्द्रसूरिकृता तद्वृत्तिस्त्वेवम् → तथा तथा = तेन तेन प्रकारेण सर्वथा परैरनुपलक्ष्यमाणेन उपधायोगः = मायायाः प्रयोजनम् ( = प्रयोगः ) । कथम् ? इत्याह- दुःस्वप्नस्य खरोष्ट्रमहिषाद्यारोहणादिदर्शनरूपस्य आदिशब्दान्मातृमण्डलादिविपरीताऽऽलोकनादिग्रहः, तस्य कथनं = गुर्वा दिनिवेदनमिति । तथा विपर्ययः = प्रकृतिविपरीतभावः स एव मरणसूचकत्वाल्लिङ्गम् । तस्य सेवा निषेवणं कार्यं येन स गुर्वादिजनः संनिहितमृत्युरयमित्यवबुध्य प्रव्रज्यामनुजानीत इति । विपर्ययलिङ्गानि तेषु स्वयमेवाबुध्यमानेषु किं कृत्यम् ? इत्याह- दैवज्ञैः निमित्तशास्त्रपाठकैः तथा तथा = तेन तेन निमित्तशास्त्रपाठादिरूपेणोपायेन निवेदनं गुर्वादिजनस्य ज्ञापनं विपर्ययलिङ्गानामेव कार्यमिति । नन्वेवं मायाविनः प्रव्रज्याप्रतिपत्तावपि को गुणः स्यात् ? इत्याशङ्कायामाह - न नैव धर्मे साध्ये माया क्रियमाणा माया = वञ्चना भवति, परमार्थतोऽमायात्वात्तस्याः । एतदपि कुतः ? इत्याह उभयस्य = स्वस्य गुर्वादिजनस्य च हितं श्रेयोरूपं एतत् एवं प्रव्रज्याविधौ मायाकरणम्, एतत्फलभूतायाः प्रव्रज्यायाः स्वपरोपकारकत्वात् । पठ्यते च ' अमायोऽपि हि भावेन माय्येव तु भवेत् क्वचित् । पश्येत् स्व- परयोर्यत्र सानुबन्धं हितोदयम् ।।' ( ) ← (धर्मबिन्दु .वृ. ४/२४२९) इति ।
=
=
एवं शास्त्रोक्तरीत्या स्वरूपतोऽशुद्धस्यापि हेत्वनुबन्धतः शुद्धस्योपायस्य प्रवृत्तौ
=
उपप्रवृत् अपि तयोः जननी - जनकयोः अबोधे प्रव्रज्यासम्मतिप्रदानेच्छाजनक प्रतिबोधविरहे सति स्वरूप - हेतुभ्यामशुद्धोऽप्यनुबन्धतः शुद्ध उपायः कर्तव्यः । स च तत्त्यागलक्षणोऽत्र विज्ञेयः । तदुक्तं पञ्चसूत्रे 'सव्वहा' इति । अध्वग्लानौषधार्थत्यागज्ञातभावना च पञ्चसूत्रे से जहा नाम केइ पुरिसे कहंचि
=
=
• स्वपरयोः सानुबन्धकल्याणे प्रशस्तमायायाः कर्तव्यता •
१. सर्वथाऽप्रतिबुध्यमाने त्यजेदध्वग्लानौषधार्थत्यागज्ञातेन ।
Jain Education International
=
For Private & Personal Use Only
=
આ પ્રમાણે પ્રયત્ન કરવા છતાં તેઓ રજા ન જ આપે તો તેમનો ત્યાગ કરવો. વ્યવહારથી આ ત્યાગ દેખાવા છતાં મુમુક્ષુ માટે તાત્ત્વિક રીતે એ ત્યાગ નથી. જેમ માર્ગમાં માંદા પડેલા માતા-પિતાની ચિકિત્સા માટે માર્ગમાં કોઈ ઔષધ મળે તેમ ન હોય અને ઔષધ લેવા માટે પુત્ર માબાપને છોડીને જાય તેમાં માબાપ સંમત ન હોય તો તેવા સંયોગમાં માબાપની ચિકિત્સા માટે ઔષધ લેવા માબાપને ત્યાં છોડીને પુત્ર ગામમાં જાય તો પુત્રે માબાપનો વ્યવહારથી ત્યાગ કરવા છતાં નિશ્ચયથી ત્યાગ કર્યો ન કહેવાય. ગ્લાન માબાપની ચિકિત્સા કરવા ઔષધ લેવા માટે તેમનો ત્યાગ કરવો એ જેમ તાત્ત્વિક રીતે ત્યાગ ન કહેવાય તેમ દીક્ષા માટે માતા-પિતાને ઉપરોક્ત રીતે વિધિપૂર્વક મુમુક્ષુ ત્યાગે તો પણ વાસ્તવમાં ત્યાગ કર્યો ન કહેવાય. કારણ કે દીક્ષા ભવરોગને કાઢવા ઔષધતુલ્ય હોવાથી દીક્ષાર્થી માટે, માતા-પિતા માટે અને અન્ય
२७९
-
www.jainelibrary.org