________________
• जनन्यादिपरिचर्याया आदिमङ्गलत्वम् •
२७५ 'इमौ शुश्रूषमाणस्य गृहानाऽऽवसतो गुरू। प्रव्रज्याप्यानुपूर्येण न्याय्याऽन्ते मे भविष्यति ।। सर्वपापनिवृत्तिर्यत् सर्वथैषा सतां मता । गुरूद्वेगकृतोऽत्यन्तं नेयं न्याय्योपपद्यते ॥' ।
(अष्टक२५/५-६) इति। तथा यद् गुर्वोः = मातापित्रोः शुश्रूषणं = परिचरणं (=गुरुशुश्रूषणं), (ए)तखि प्रारम्भमङ्गलम् = आदिमङ्गलं प्रव्रज्यालक्षणशुभकार्यस्येति नैतद्विना प्रव्रज्यासिद्धिः, इत्यस्मादेव तस्या न्याय्यत्वम्। तदिदमाहज्यासीदनम् । तदुक्तं त्रिषष्टिशलाकापुरुषचरित्रे श्रीहेमचन्द्रसूरिणा → न हि सीदन्ति कुर्वन्तो देशकालोचितां क्रियाम् + (त्रि.श.पु. १११०१) इति भावः ।।
प्रकृते कारिकायुग्मेन अष्टकसंवादमाह- ‘इमा विति, 'सर्वे'ति च । अनयोर्व्याख्यालेशस्त्वेवम् → इमौ = प्रत्यक्षासन्नौ गुरू = माता-पितरौ शुश्रूषमाणस्य = परिचरतो मे तच्छुश्रूषार्थमेव गृहान् = गेहं आवसतः = अधितिष्ठतः सतः प्रव्रज्याऽपि = चिकीर्षितानगारिताऽपि, आस्तां पित्रुद्वेगनिरासादि, आनुपूर्येण = परिपाट्या न्याय्या = युक्ता अन्ते = गुरुशुश्रूषापर्यवसाने एव मे = मम, प्रकृते भगवतो महावीरस्य भविष्यति = सम्पत्स्यते ।। कुत एतदेवमित्याह सर्वपापनिवृत्तिः = अशेषावद्यानुष्ठानव्युपरतिः यत् = यस्मात् सर्वथा = सर्वैः प्रकारैः निमित्तभावेनापीत्यर्थः, एषा प्रव्रज्या सतां = विदुषां मता = इष्टा, इह तस्मादिति शेषो दृश्यः । तस्माद् गुरुद्वेगकृतः = माता-पितृचित्तसन्तापकारिणः अत्यन्तं = अतिशयेन तदप्रतिबोधनपूर्वकं शास्त्रोक्ततत्प्रतिबोधनोपायाऽप्रयोगपूर्वकं वा प्रवृत्तस्य न = नैव इयं = प्रव्रज्या न्याय्या = युक्ता उपपद्यते = घटते, पितृसन्तापरक्षणोपायाऽप्रवृत्तत्वेन निमित्तभावेन तच्चित्तसन्तापलक्षणपापकारित्वात्तस्याः 6 (अष्टकवृत्ति २५/५-६) इति ।
अभिग्रहाङ्गीकरणस्य न्याय्यत्वे हेत्वन्तरमाह- 'तथेति । यद् = यस्मात्कारणात्, ‘अभ्यर्हितं पूर्व निपततीति न्यायेन माता-पित्रोः परिचरणं हि आदिमङ्गलं प्रव्रज्यालक्षणशुभकार्यस्य । इति हेतोः प्रव्रज्यादौ तस्यावश्यकर्तव्यताकत्वं सिध्यति । न एतद् = माता-पितृपरिचरणं विना प्रव्रज्यासिद्धिः तात्त्विकी सम्भवति, मङ्गलमृते शुभकार्ये विघ्नाऽऽपातात् । तदुक्तं 'श्रेयांसि बहुविघ्नानि, भवन्ति महतामपि । अश्रेयसि प्रवृत्तानां क्वापि यान्ति विनायकाः ।।' ( ) इति हेतोः अस्मादेव = पितृपरिचर्यादिप्रयोजकगृहवासाऽऽक्षेपकप्रकृताभिग्रहादेव तस्याः = प्रव्रज्यायाः न्याय्यत्वं = लोकागमनीतिसमन्वितत्वम् ।
માટે જ અષ્ટકજીમાં શ્રીહરિભદ્રસૂરિજી મહારાજે પ્રભુ વીરના હૈયાના ભાવોને આ રીતે જણાવેલ છે કે – ઘરમાં રહેતા અને માતા-પિતાની સેવા કરતા એવા મને સેવાદિક્રમથી અત્તે દીક્ષા લેવી એ પણ ઉચિત બનશે. કારણ કે દીક્ષા સર્વ પાપોની નિવૃત્તિ સ્વરૂપ છે- એમ સજ્જનો દ્વારા મનાયેલ છે. તેથી માતા-પિતાને ઉગ કરાવનાર દીક્ષાર્થીની દીક્ષા ઉચિત બની ન શકે. કારણ કે માતા-પિતાના સંતાપને દૂર કરવાના ઉપાયમાં પ્રવૃત્તિ ન કરવાથી સ્વનિમિત્તે તેમના મનમાં સત્તાપ પેદા કરાવવા સ્વરૂપ પાપની સાથે તે દીક્ષા સંકળાયેલી છે. ૯
तथा । वणी, माता-पितानी सेवा ४२वी में हमा५३५. शुम आर्यभi पामि मंगल छे. भाटे તેના વિના દીક્ષાની સિદ્ધિ તાત્ત્વિક બની ન શકે. આમ એ અભિગ્રહથી જ દીક્ષા નીતિયુક્ત બની શકી. આમ લોકનીતિ-શાસ્ત્રનીતિથી સંપન્ન એવી દીક્ષાનો સંપાદક હોવાથી તે અભિગ્રહ યોગ્ય જ સિદ્ધ થાય છે.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org