________________
२३६
• अष्टसहस्रीतात्पर्यविवरणसंवादः •
द्वात्रिंशिका -४/१०
इत्थं जगदकर्तृत्वेऽप्यमहत्त्वं निराकृतम् । कार्ये कर्तृप्रयोज्यस्य विशेषस्यैव दर्शनात् ।। १० ।।
इत्थं दृष्टान्ते व्याप्तिं गृहीत्वा पक्षीभूते दोषत्वे आवरणत्वे च निरुक्तहेतुसत्त्वात् तत्प्रतिबद्धसाध्यवत्ताग्रहोSपि सुकर एव । दोषत्वाऽऽवरणत्व-स्वर्णमलत्वानां मिथो व्यधिकरणजातित्वेऽपि नाऽत्र कश्चिद्दोषः, जातित्वस्योपाधिभिन्नत्वे सति नित्यत्वे सत्यनेकसमवेतत्वरूपस्य यद्वाऽनेकत्रानुगतबुद्धिव्यवहारजनकत्वादिरूपस्य तत्र सर्वत्राऽबाधादिति न दृष्टान्तस्य साधनवैकल्यं साध्यवैकल्यं वा । न वा पक्षे स्वरूपाऽसिद्धिः । न वाऽऽश्रयाऽसिद्धिः, सांसारिक सुख-दुःखकारणतावच्छेदकतयाऽऽवरणत्वजातिसिद्धेः । सा चकर्माष्टकवृत्तिरित्यभ्युपगम्यते । आवरणत्वजात्याश्रयीभूतकर्मकारणतावच्छेदकतया च दोषत्वजातिः सिध्यति । सा च मिथ्यात्वाऽविरतिकषायादिवृत्तिरित्यभ्युपगम्यते । न च मिथ्यात्वादिहानिः कुतो जायत इति शङ्कनीयम्, तद्विरोधिसम्यग्दर्शनादितः तदभ्युपगमात्, तत्प्रकर्षे तदपकर्षदर्शनात् । यद्धि प्रकृष्यमाणं यदपकर्षति तत् तद्विरोधि सिद्धम्, यथोष्णस्पर्शः प्रकृष्यमाणः शीतस्पर्शमपकर्षस्तद्विरोधीति । मिथ्यादर्शनादिकमपकर्षति च प्रकृष्यमाणं सम्यग्दर्शनादि । अतः तत् तद्विरोधि । सम्यग्दर्शनादिपरमप्रकर्षसद्भावे च तन्निःशेषक्षयसिद्धिः । न च तदसिद्धिरिति वाच्यम्, 'सम्यग्दर्शनादि क्वचित् परमप्रकर्षसद्भावभाक्, प्रकृष्यमाणत्वात्, परिमाणवदि 'त्यनुमानात् तत्सिद्धेः । स एव च महत्पदवाच्यो वीतरागः परमेश्वरः । इत्थञ्च करविन्यस्तबिल्वन्यायेन वीतरागस्य महत्त्वसिद्धिर्द्रष्टव्या । तदुक्तं शास्त्रवार्तासमुच्चये दोषाणां ह्रासदृष्ट्येह तत्सर्वक्षयसम्भवात् । तत्सिद्धौ ज्ञायते प्राज्ञैः तस्यातिशय इत्यपि ।। ← (शा.वा.स.१०/ ५२) इति ।
नूक्तानुमाने दोषत्वाऽऽवरणत्वयोरुभयोः पक्षत्वे पक्षतावच्छेदकाऽसिद्धिः, न हि दोषत्वाऽऽवरणत्वयोरनुगतः कश्चिद्धर्मोऽस्ति । तदन्यतरत्वेन पक्षत्वे च तदन्यतरस्मिन् साध्याऽसिद्धिप्रसङ्गः । स्वातन्त्र्येणानुमानद्वयमुपन्यस्य तत्साधने च गौरवम् । हेतुतावच्छेदकगौरवादिकञ्चातिरिच्यते इति चेत् ? तर्हि अष्टसहस्रीतात्पर्यविवरणदर्शितरीत्या ( अष्टस. ता. १/४/पृ.९२) 'दोषावरणहानित्वं निःशेषवृत्ति अतिशयितवृत्तित्वात्, स्वर्णमलहानित्ववदि त्यत्र तात्पर्यं बोध्यम् । निःशेषत्वं स्वसमानाधिकरण-स्वप्रतियोगिजातीयप्रागभावकालीनभिन्नत्वम् । अतिशयितत्वञ्चाऽऽश्रयभेदव्यापारप्रयुक्ताऽल्पाल्पतर- बहु- बहुतरप्रतियोगिकत्वम् । अतिशयितत्वमतिशायिनीत्वमतिशयवतीत्वन्तारतम्यञ्चेत्यनर्थान्तराणीति विभावनीयम् ।।४ / ९ ।।
ग्रन्थकारो जगत्कर्तृत्ववादनिरासाय प्रयतते - ' इत्थमिति ।
એવું સિદ્ધ થવાથી તેવા દોષ-આવરણના ક્ષયના આશ્રય તરીકે વીતરાગની સિદ્ધિ થશે. આમ વીતરાગ આત્મામાં દોષધ્વંસવત્ત્વરૂપે મહત્ત્વ માનવું એ જ યોગ્ય છે. નિત્યનિર્દોષત્વ અસિદ્ધ હોવાથી નિત્યનિર્દોષ ઈશ્વરની માન્યતા અપ્રામાણિક સાબિત થાય છે. (૪/૯)
અન્ય શંકાનું નિરાકરણ કરતા ગ્રન્થકારશ્રી ફરમાવે છે કે →
ગાથાર્થ ઃ- આમ વીતરાગ જગતના કર્તા ન હોવા છતાં પણ તેમાં મહત્ત્વવિરહનું નિરાકરણ થાય છે. કારણ કે કાર્યમાં કર્તૃપ્રયોજ્ય વિશેષ પ્રકારના ગુણધર્મનું જ દર્શન થાય છે. (૪/૧૦)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org