________________
• दिङ्नागमतप्रवेशप्रसङ्गनिराकरणम्
द्वात्रिंशिका-४/९
साध्याऽऽश्रयतया पृथक्कृतां व्यक्तिमनुपादाऽऽयापादनाच्च न दिङ्नागमतप्रवेशः । न च निःशेषहानिप्रतियोगिजातीयत्वस्य साध्यत्वे सम्प्रतिपन्नस्वर्णमलस्य दृष्टांन्तत्वे च न कोऽपि दोष इति वाच्यम्,
२३२
•
=
'किं दोषावरणे छद्मस्थगते पक्षविधयाऽङ्गीकृते वीतरागगते वा ? आधे बाधः, अन्त्ये चाश्रयाऽसिद्धिरित्युच्यते इति परवादिमतखण्डनकृते दिङ्नागेन या प्रक्रियोपात्ता सोपादीयत इति व्यक्तमेव भवतां क्षणिकवादिदिङ्नागाभिधानबौद्धाचार्यमतप्रवेशनमिति चेत् ? अत्रोच्यते, साध्याश्रयतया = निःशेषहानिप्रतियोगित्वाऽऽश्रयविधया पृथक्कृतां उपलक्षणात् साध्याभावाश्रयतया च पृथक्कृतां व्यक्तिं पक्षव्यक्ति अनुपादाय अगृहीत्वा आपादनाच्च = बाधाऽसिद्धिदोषयुग्मोद्भावनाद्धि न बाधाऽसिद्धिदोषापादकस्य 'यद्यपि 'वादिनो दिङ्नागमतप्रवेशः । 'दोषावरणयोः पक्षता किं निःशेषहानिप्रतियोगित्वेन रूपेणाभिमता दुत तदप्रतियोगित्वेन रूपेण ? आद्ये बाध अन्त्ये चासिद्धि रित्येवं यद्यापादनं कृतं स्यात्, स्यादेव तर्हि दिङ्नागमतप्रवेशः । न चैवमस्माभिः कृतम् । अस्माभिस्तु दोषावरणे किं छद्मस्थगते पक्षविधयाऽभिमते वीतरागगते वा? आद्ये बाधः, अन्त्ये चासिद्धि रित्येवमापादनं क्रियत इति न बौद्धमतप्रवेशप्रसङ्गः सम्भवति । पक्षतावच्छेदककोटौ साध्यस्य तदभावस्य वा प्रवेशद्वारा बाधाऽसिद्ध्यापादने कृत एव क्षणिकवादिमतप्रवेशप्रसङ्ग इति ध्येयमिति पूर्वपक्षवाद्याशयः ।
न च निःशेषहानिप्रतियोगित्वमपहाय निःशेषहानिप्रतियोगिजातीयत्वस्य निःशेषहानिप्रतियोगिनिष्ठा या जातिः तद्वत्त्वस्य साध्यत्वे = साध्यविधयाऽङ्गीकारे सम्प्रतिपन्नस्वर्णमलस्य = हेतु-साध्योभयाश्रयतया वादि-प्रतिवाद्युभयसम्मतस्य स्वर्णमलस्य दृष्टान्तत्वे च न कोऽपि बाधाऽसिद्ध्यादिलक्षणो दोषः सम्भवति । तथाहि छद्मस्थगतदोषाऽऽवरणयोः निःशेषहानिप्रतियोगित्वविरहेऽपि निःशेषहानिप्रतियोगिस्वर्णमलसमवेतजातिसत्त्वेन तदसत्त्वाऽनवगमेन वा न बाधः । न च स्वरूपाऽसिद्धिः, तत्र हेतोः सत्त्वात्, न वाऽऽश्रयाऽसिद्धिः, छद्मस्थस्याऽसर्वज्ञतया तल्लिङ्गकयोस्तत्राऽनुमेययोः दोषाऽऽवरणयोः पक्षविधया प्रसिद्धेरिति स्याद्वादिना वाच्यम्, निःशेषहानिप्रतियोगिवृत्तिजातिमत्त्वस्य साध्यत्वमङ्गीकृत्योदाहरणीभूतस्वर्णमले
=
निराकरण :- 'साध्या ।' ना, अमे नैयायिडे तमने (वैनोने) के प्रश्न डरेस छे तेमां खने छिनाग બૌદ્ધાચાર્ય જે પ્રશ્ન કરે છે તેમાં આસમાન-જમીનનો ફરક છે. આથી તેમના મતમાં અમારો પ્રવેશ નહિ થાય. તે આ રીતે - દિનાગાચાર્ય તો અમને = નૈયાયિકને સાધ્યના આશ્રય તરીકે અને સાધ્યાભાવના આશ્રય તરીકે પૃથક્ કરેલ વસ્તુને પક્ષ બનાવીને બાધ અને અસિદ્ધિ દોષનું આપાદન કરે છે. જ્યારે અમે તો એવી રીતે આપાદન કરતા નથી. જો અમે એમ કહીએ કે → ‘પક્ષ તરીકે નિઃશેષહાનિના પ્રતિયોગી એવા દોષ-આવરણ માન્ય છે કે નિઃશેષહાનિના અપ્રતિયોગી એવા દોષ-આવરણ ? જો નિઃશેષહાનિના અપ્રતિયોગીસ્વરૂપ દોષ-આવરણને પક્ષ કરશો તો બાધ દોષ આવશે અને નિઃશેષહાનિના પ્રતિયોગી એવા દોષાવરણને પક્ષ બનાવશો તો અસિદ્ધિ દોષ આવશે.' ← તો જરૂર અમારો દિનાગના મતમાં પ્રવેશ થઈ જાય. પરંતુ અમે તેવી રીતે દોષાપાદન કરતા નથી. અમે તો એમ કહીએ છીએ કે ‘વીતરાગ જીવના દોષ-આવરણ પક્ષ તરીકે માન્ય છે કે છદ્મસ્થ જીવના ? સાધ્યાભાવના આશ્રય १. हस्तादर्शे 'शोचि' इत्यशुद्धः पाठः । हस्तादर्शान्तरे च 'स्वि' इत्यशुद्धः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org