________________
२१२ • गोशालकस्याऽसामर्थ्यख्यापनम् .
द्वात्रिंशिका-४/२ 'कुतर्का एव ध्वान्तानि तेषु सूर्यांशुः । तन्महत्त्वं (=कुतर्कध्वान्तसूर्यांशुमहत्त्वं), अवच्छेद्याऽवच्छेदकन्यकुब्जत्व-वासन्तिकत्व-रक्तत्व-चैत्रस्वत्व-मैत्रदृष्टत्व-देवदत्तक्रीतत्व-हस्वत्व-दीर्घत्व-दूरत्वाऽन्तिकत्व-लघुत्व-गुरुत्वादीनां बहूनां निरपेक्ष-सापेक्षधर्माणां सत्त्वेऽपि न लोकानां सर्वदा सर्वेषां तेषामनुभवः किन्तु बुभुत्सातदवगमयोग्यता-तद्दर्शनानुकूलव्यापाराद्यनुसारेणैव तत्तद्धर्माणां तत्र भानम्। काचकामलाद्युपहतनयनानान्तु रक्तेऽपि तस्मिन् पीतत्वभ्रमः । न चैतावता स पीतः स्यात् । न च सर्वेषां सर्वदा सर्वतद्धर्माऽभानेऽपि तत्तद्धर्मप्रच्यवः कस्यचित्तत्राऽभिमतः । एवमेव प्रतिवस्तु अनन्तधर्मात्मकतायाः सत्त्वेऽपि बुभुत्सा-ज्ञानावरणक्षयोपशम-तत्तद्धर्मदर्शनाऽनुकूलव्यापाराद्यनुसारेणैव तत्तद्धर्माणां तत्र तत्र भानं कक्षीक्रियतेऽस्माभिः । मिथ्यात्व-कदाग्रहादिग्रस्तान्तःकरणानान्तु अनेकान्तात्मकेऽपि वस्तुन्येकान्तभ्रमः । न चैतावता वस्तु एकान्तात्मकं स्यात् । ततश्च माध्यस्थ्यमवलम्ब्य प्राज्ञेन निरुक्तविशेषदर्शनपुरस्कारेणाऽनेकान्तात्मकसकलवस्तुसमुदायस्स्वीकार्यः, न तु “विषवृक्षोऽपि संवर्ध्य स्वयं छेत्तुमसाम्प्रतम्” इति न्यायेनाऽस्माभिरेव प्रमाणपदवीमारोपितानीमानि मतानि कथं महता प्रबन्धेन निरसनीयानि ? इत्यभिनिवेशाऽऽवर्ते स्वात्मा योजनीय इति दिक् ।
तत् = कुतर्कध्वान्तसूर्यांशुः न्यायसङ्गतं संवादि वीतरागवचनमेव महत्त्वम् । अत एव मङ्खलिपुत्रेणाऽऽजीविकमतोत्थापकेन गोशालकेन सद्दालपुत्रं श्रमणोपासकं प्रति वर्धमानस्वामिना साकं वादं कर्तुं स्वस्याऽसामर्थ्यमभ्युपगतम् । यथा चैतत्तथा व्यवस्थितं उपासकदशाङ्गसूत्रे → नो खलू पभू अहं तव धम्मायरिएणं भगवया महावीरेण सद्धिं विवादं करेत्तए 6 (उपा.द.अध्य.७/पृ.४५) इत्यत्र । अत एवानेकान्तवादे कुवाद्याक्षेपा आकाशमुष्टिहननन्यायेन निष्फला अवसेयाः । एकान्तवादकूपनिमग्ना वावदूकवादिमण्डूकाः कूपमण्डूकन्यायेनाऽनेकान्तवादभास्करं नैव दृष्टवन्तः परमार्थत इत्यवधेयम् ।
ननु तादृशवचनं महत्त्वावच्छेदकं, महत्त्वञ्च तदवच्छेद्यमिति कथमनयोरैक्याभिधानमुचितम् ? इति चेत् ? अत्रोच्यते, अवच्छेद्यावच्छेदकयोः स्याद्वादाश्रयणेन = अनेकान्तावलम्बनेन कथञ्चिदभेदात् । यथा 'द्रव्यत्वेनात्मनो नित्यत्वमि'त्यत्रात्मनि द्रव्यत्वाऽवच्छेदेन नित्यत्वविधाने द्रव्यत्वस्य चाऽनित्यत्वे न અહીં જે કહેવામાં આવેલ છે તે તો એક દિગ્દર્શનમાત્ર છે. બાકી હજુ આ દિશામાં ઘણું આગળ वियारी शय तम छे. ॥ पातने ४९॥वा उपाध्याय महा। 'दिक्' शनी प्रयोग ४२८ छे. (વિશેષ જિજ્ઞાસુ દિવ્યદર્શનટ્રસ્ટ પ્રકાશિત સ્યાદ્વાદરહસ્ય ભાગ-૧,૨,૩નું અવલોકન કરી શકે છે.)
(૩) જિનવચનની ત્રીજી વિશેષતા એ છે કે કુતર્કોરૂપી અંધકારનો નાશ કરવા માટે તે સૂર્યના તેજસ્વી કિરણો સમાન છે. આવી ૩ વિશેષતાઓથી યુક્ત એવી વાણી એ જ ભગવાનનું મહત્ત્વ છે. જો કે અન્ય લૌકિક દેવ-દેવીઓ કરતાં ભગવાનની મહાનતા તેવી ૩ વિશેષતાયુક્ત વાણી દ્વારા નક્કી થાય છે. અર્થાત સુસંવાદી ન્યાયસંગત કુતર્કનાશક વાણી એ ભગવાનની મહાનતાનું નિર્ણાયક = અવચ્છેદક = सू25 = धोत: = अनुभा५४ = सा43 = ५४हेतु = लिंग छे. मने तेना द्वारा महानता मे निर्णय = १ = सूयनयोग्य = धोत्य = अनुभव = साध्य = लिंग छे. भाम तो ते १. मुद्रितप्रतौ 'कुतुर्का' इत्यशुद्धः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org