________________
१८४
• बौद्धदर्शनानुसारेण बालस्वरूपपरामर्शः • द्वात्रिंशिका-३/२७ असीला अणुवयमाणस्स बितिआ मंदस्स बालया' (आचा. ६/४/१८६) । तथा 'मार्गमेक आख्याता न चोञ्छजीवी' त्यपि श्रुतिरस्ति । तदुक्तं स्थानाङ्गे- आघाइत्ता (?आधवतिता) णामं एगे णो उंछजीवी (उंछजीविसंपन्ने ?)' (स्था. ४/४/३४४) इति ।।२७।। 'सीलमंता' इत्यादि । तद्वृत्तिस्त्वेवम् → शीलम्-अष्टादशशीलाङ्गसहस्रसङ्ख्यं तद्विद्यते येषां ते शीलवन्तः, उपशान्ताः कषायोपशमात्, ‘संखाए रीयमाणा' संख्यया = प्रज्ञया रीयमाणाः = संयमानुष्ठाने पराक्रममाणाः सन्तः कस्यचिद्विश्रान्तभागधेयतया अशीला एव इत्येवमनुवदतोऽनु = पश्चाद् वदतः पृष्ठतोऽपवदतः पार्श्वस्थादेः द्वितीयैषा मन्दस्य बालता = मूर्खता, एकं तावत्स्वतश्चारित्रापगमः पुनरपरानुद्युक्तविहारिणोऽपवदत इत्येषा द्वितीया बालता - (आचा.६/४/१८६ वृत्ति) इति । सूत्रकृताङ्गे अपि → कुव्वंति पावगं कम्मं पुट्ठा वेगे एवमाहंसु । 'नाहं करेमि पावंति अंकेसाइणी ममेस त्ति । बालस्स मंदयं बितियं जं च कडं अवजाणई भुज्जो । दुगुणं करेइ से पावं पूयणकामए विसण्णेसी ।। - (सू.कृ. १।४।१।२८-२९) इत्युक्तम् । त्रिषष्टिशलाकापुरुषचरित्रे अपि → निनुते दोषमज्ञता 6 (त्रि.श.पु. १।४।१८४) इति कथितम् । → तत्थ मंदा विसीयंति उज्जाणंसि जरग्गवा - (सू.कृ. १/३/२/२१) इति सूत्रकृताङ्गवचनमपि स्मर्तव्यमत्र । एतावता तदीयं सम्यक्त्वमसद् दुर्बलं वेति द्योतितम् । यथोक्तं उपदेशमालायामपि → गुणहीणो गुणरयणायरेसु जो करेइ तुल्लमप्पाणं । सुतवस्सिणो य हीलइ, सम्मत्तं कोमलं तस्स ।। ( (उप.मा.३५१) इति । ___ प्रकृते → इध, भिक्खवे अस्सुतवा पुथुज्जनो-अरियानं अदस्सावि अरियधम्मस्स अकोविदो अरियधम्मे अविनीतो सप्पुरिसानं अदस्सावी सप्पुरिसधम्मस्स अकोविदो सप्पुरिसधम्मे अविनीतो मनसिकरणीये धम्मे नप्पजानाति, अमनसिकरणीये धम्मे नप्पजानाति सो मनसिकरणीये धम्मे अप्पजानन्तो अमनसिकरणीये धम्मे अप्पजानन्तो ये धम्मा न मनसि करणीया, ते धम्मे मनसि करोति, ये धम्मा मनसि करणीया, ते धम्मे न मनसि करोति - (म.नि.१।१। सब्बासवसुत्त-१७, पृ.१०) इति मज्झिमनिकाये यद् बालस्वरूपमुक्तं तदपीहाऽनुसन्धेयम् । ‘अदस्सावी = अविद्वान्' शिष्टं स्पष्टञ्च । ___'आघवतिता' इत्यादि । प्रकृतस्थानाङ्गसूत्रं विवृण्वद्भिः श्रीअभयदेवसूरिभिः तद्वृत्तौ → आख्यायकः एकः सूत्रार्थस्य न चोञ्छजीविकासम्पन्नः = नैषणादिनिरत इत्यर्थः । स चाऽऽपद्गतः संविग्नः संविग्नपाक्षिको वा, यदाह ‘होज्ज हु वसणं पत्तो सरीरदुब्बलयाए असमत्थो । चरणकरणे असुद्धे सुद्धं मग्गं परूवेज्जा ।।' (निशीथभाष्य.५४३५) तथा 'ओसन्नोऽवि विहारे कम्मं सिढिलेइ सुलहबोही બળાત્કારે આવે છે. કારણ કે એવું કહેવામાં તો ગુણકારી એવા વાસ્તવિક આચારમાર્ગમાં દોષારોપણ થાય છે. જાતે આચાર ન પાળવો તે પહેલી બાલિશતા. તથા આચારમાર્ગનો અપલાપ કરવો એ બીજી બાલિશતા સમજવી. આચારાંગસૂત્રમાં જણાવેલ છે કે “શીલવાન, ઉપશાંત અને પ્રજ્ઞાથી સંયમમાં ઉદ્યમ કરતા સાધુને “આ તો શીલભ્રષ્ટ છે” આમ કહેવું તે આચારભ્રષ્ટની બીજી બાલિશતા = મૂર્ખતા છે.”
તથા ઠાણાંગજીમાં જણાવેલ છે કે “અમુક જીવો એવા હોય છે કે યથાવસ્થિત આગમમાર્ગને हे छ. ५९ विशुद्ध गोयरीया वगैरे भायारथी संपन्न नथी. डोता.' (3/२७) १. आख्यायक: नाम एको नोञ्छजीविकासंपन्नः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org