________________
१७६
• संविग्नपाक्षिकाणामपि स्वोपसम्पन्नाऽहिता •
द्वात्रिंशिका - ३/२३
१
श्रूयते, 'अत्तट्ठा न वि दिक्खइ' (उप.मा. ५१६ ) इति वचनात् । ज्ञानाद्यर्था अन्येषां भावचरणपरिणामवत्पृष्ठभाविनामपुनर्बन्धकादीनां दीक्षा च ( = अन्यदीक्षा च ) तदर्थं च तेषां स्वोपसम्पच्च नाऽहिता' = नाऽहितकारिणी, असद्ग्रहपरित्यागार्थमपुनर्बन्धकादीनामपि दीक्षणाऽधिकारात् । तदुक्तं 'सइअपुणबंधगाणं कुग्गहविरहं लहुं कुणइत्ति' (पञ्चाशक. २/४४) ।
संविग्नपाक्षिकस्य विशिष्टमाचारमुपदर्शयति 'आत्मार्थमिति । उपदेशमालासंवादमाह 'अत्तट्ठा' इति सम्पूर्णा कारिकैवम् → ‘वंदइ नवि वंदावेइ किइकम्मं कुणइ कारए णेय । अत्तट्ठा नवि दिक्खर, देइ सुसाहूणं बोहेउं ।।' ← (उप.मा. ५१६ ) इति । तद्वृत्तिस्त्वेवम् “वन्दते संविग्नान् लघून् साधूनपि परं तेषां पार्श्वादात्मनो (कृतिकर्म) वन्दनं न कारयति । विश्रामणादि करोति स्वयं संविग्नसाधूनां न च कारयति तेभ्यो विश्रामणादिः । आत्मार्थमागतं शिष्यं न दीक्षयति, तस्य दीक्षां न ददातीत्यर्थः । ददाति सुसाधूनां बोधयित्वा, सुसाधुसमीपे तं दीक्षयति, न तु स्वयं तस्य दीक्षां ददातीति ← (उ. मा. ५१६ वृत्ति) ।
1
साम्प्रतमात्मार्थं तेषां दीक्षणमाह- भावचरणपरिणामवत्पृष्ठभाविनां = तात्त्विकसर्वविरतिपरिणामवन्तो ये तदधस्स्थानवर्तिनां अपुनर्बन्धकादीनां ज्ञानाद्यर्था = स्व-परज्ञानादियोगक्षेमनिमित्ता दीक्षा तदर्थं = तादृशदीक्षार्थं च तेषां = तादृशापुनर्बन्धकादीनां स्वोपसम्पच्च = स्वशिष्यविधयाऽङ्गीकृतिश्च नाऽहितकारिणी । न च चारित्रपरिणामविरहात्कथमपुनर्बन्धकादीनां दीक्षणमुचितमिति शङ्कनीयम्, प्रज्ञापनीयतया असद्ग्रहपरित्यागार्थं अपुनर्बन्धकादीनामपि दीक्षणाधिकारात् ।
पञ्चाशकसंवादमाह- ‘सइअपुणे 'त्यादि । अभयदेवसूरिकृता तद्वृत्तिस्त्वेवम् सकृदेकदा न पुनरपि बन्धो मोहनीयकर्मोत्कृष्टस्थितिबन्धनं ययोस्तौ सकृदपुनर्बन्धकौ तयोः सकृद्बन्धकस्यापुनर्बन्धकस्य चेत्यर्थः । तत्र यो यथाप्रवृत्तकरणेन ग्रन्थिप्रदेशमागतोऽभिन्नग्रन्थिः सकृदेवोत्कृष्टां सागरोपमकोटीकोटीसप्ततिलक्षणां स्थितिं भन्त्स्यत्यसौ सकृद्बन्धक उच्यते । यस्तु तां तथैव क्षपयन् ग्रन्थिप्रदेशमागतः पुनर्न तां भन्त्स्यति भेत्स्यति च ग्रन्थिं सोऽपुनर्बन्धक उच्यते । एतयोश्चाभिन्नग्रन्थित्वेन कुग्रहः सम्भवति, न पुनरविरतसम्यग्दृष्ट्यादीनां मार्गाभिमुख मार्गपतितयोस्तु कुग्रहसम्भवेऽपि तत्त्याग एव तद्भावनामात्र-साध्य इत्यत उक्तं सकृद्बन्धकापुनर्बन्धकयोरिति । एतयोश्च भावसम्यक्त्वाभावाद्दीक्षायां द्रव्यसम्यक्त्व - मेवमारोप्यत સંભળાય છે. ઉપદેશમાલામાં જણાવેલ છે કે ‘પોતાની પાસે દીક્ષા લેવા ઉપસ્થિત થયેલ મુમુક્ષુને પોતાની સેવા માટે સંવિગ્નપાક્ષિક દીક્ષા આપે નહિ.' જેમનામાં ભાવચારિત્રનો પરિણામ નથી પરંતુ તેનાથી થોડી નીચેની ભૂમિકાએ જેઓ રહેલા છે, તેવા પ્રથમગુણસ્થાનકવર્તી અપુનર્બંધક વગેરે જીવોને સ્વપરના જ્ઞાન વગેરેના ઉદ્દેશથી દીક્ષા આપવી અને તે માટે તેવા દીક્ષાર્થીઓને પોતાની ઉપસંપદામાં = પરિવારમાં સામેલ કરવા એ સંવિગ્નપાક્ષિક માટે અહિતકારી નથી. (જેઓ ભાવ-ચારિત્રના પરિણામવાળા નથી તેવા અપુનર્બંધક વગેરે જીવોને દીક્ષા કઈ રીતે આપી શકાય ? આ પ્રશ્ન અસ્થાને છે. કારણ કે) કદાગ્રહ છોડાવવા માટે, મોક્ષમાર્ગમાં પ્રવેશ કરાવવા માટે અપુનર્બંધક વગેરે જીવોને પણ દીક્ષા આપવાની વાત શાસ્રસિદ્ધ છે. પંચાશકજીમાં જણાવેલ છે કે દીક્ષાવિધિ સમૃદ્ધ્ધક અને અપુનબંધક જીવોમાં ઝડપથી તીવ્ર કદાગ્રહનો ત્યાગ કરે છે.'
१. मुद्रितप्रती 'चरप' इति त्रुटितः पाठः । २ मुद्रितप्रतौ ' नाऽहिता' इति पाठो नास्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org