________________
• भौतघातकोदाहरणम् .
द्वात्रिंशिका-३/१८ ञ्छादिकमप्यफलं विपरीतफलं' वा स्यात्, वारिधाविव नौभंगः ।।१८।। तुच्छबज्झजोगम्मि । णिरया पहाणजोगं चयंति गुरुकम्मदोसेण ।। सुद्धंछाइसु जत्तो गुरुकुलचागाइणेह विण्णेओ । सबरसरक्खपिच्छत्थघाय-पायाऽछिवणतुल्लो ।।' 6 (उप.प.६७६/६७७) इति । तद्वृत्तिस्त्वम्
→ एतद्गुरुलाघवमिह धर्मप्रवृत्तिष्वजानन्तः = अनवबुद्ध्यमाना असद्ग्रहाः = मिथ्याभिनिवेशवन्तः केचित् स्वबुद्धिकल्पनया धर्ममाचरन्तोऽपि तुच्छबाह्ययोगे - तुच्छोऽत्यल्पकर्मनिर्जरो बाह्यो यथावत् परमगुरुवचनोपयोगशून्यतया शरीरव्यापारमात्ररूपो यो योगोऽनुष्ठानं तत्र, निरताः = अत्यन्तबद्धाऽऽदराः प्रधानयोग गुरुकुलवासादिरूपं त्यजन्ति = मुञ्चन्ति । केनेत्याह- गुरुकर्मदोषेण = गुरोमिथ्यात्वमोहादेः कर्मणो विपाकप्राप्तस्य यो दोषस्तेन 6 (उ.प.६७६ वृत्ति) ।
अत्र च त्यक्ते बाह्ये योगे यादृशः स्यात्तद्दर्शयति- शुद्धो द्विचत्वारिंशद्दोषविकलः स चासावुञ्छश्च भिक्षावृत्तिरूपः, आदिशब्दाच्चित्रद्रव्याद्यभिग्रहाऽऽसेवनाग्रहः । ततः शुद्धोञ्छादिषु साधुसमाचारेषु यत्न आदरः क्रियमाणः केषाञ्चिदलब्धसिद्धान्तहृदयानां गुरुकुलत्यागादिना गुरोः “पडिरूवो तेयस्सी” (उपदेशमाला१०-११) इत्यादिगाथाद्वयोक्तलक्षणस्य कुलं परिवारो = गुरुकुलं तस्य त्यागः = प्रोज्झनम्, आदिशब्दात्सूत्रार्थपौरुषी-यथाज्येष्ठादिविनय-वैयावृत्त्यादिपरिहारग्रहः, तेनोपलक्षित इह धर्मविचारे विज्ञेयः । कीदृश इत्याह शबरस्य म्लेच्छरूपस्य कस्यचित् सरजस्कानां = शैवानां पिच्छार्थं = मयूरपिच्छनिमित्तं यो घातो = मारणं तत्र यत्पादाऽच्छुवनं चरणसंस्पर्शपरिहाररूपं तत्तुल्य इति । अयमभिप्रायः- कश्चिद्धर्मार्थी सम्यगपरिणतजिनवचनो गुरुकुलवासे तथाविधां भिक्षाशुद्धिमपश्यन् “आइन्नया महाणो कालो विसमो सपक्खओ दोसा । आइतिगभंगगेणवि गहणं भणियं पकप्पम्मि ।।” (पं.क.भा.१६९६) इति पञ्चकल्पभाष्यदर्शितमश्रद्दधानः शुद्धोञ्छार्थी गुरुकुलवासपरित्यागेन विहारमवलम्बते । स च विहारः प्रस्तुतशबरपादाऽच्छुवनतुल्यो बहुदोषोऽल्पगुणः सम्भावनीय इति। अत्र चादित्रिकभङ्गको यतिधर्मादिभूतोद्गमोत्पादनैषणाशुद्धिविनाशः प्रकल्पस्त्वपवादः । प्रस्तुतदृष्टान्तविस्तारार्थश्चैवं ज्ञातव्यः - किल कस्यचिच्छबरस्य कुतोऽपि प्रस्तावात् 'तपोधनानां पादेन स्पर्शनं महतेऽनय सम्पद्यते' इति श्रुतधर्मशास्त्रस्य कदाचिन्मयूरपिच्छैः प्रयोजनमजायत । यदाऽसौ निपुणमन्यत्रान्वेषमाणोऽपि तानि न लेभे तदा श्रुतमनेन, यथा- भौतसाधुसमीपे तानि सन्ति, ययाचिरे च तानि तेन तेभ्यः, परं न किञ्चिल्लेभे । ततोऽसौ शस्त्रव्यापारपूर्वं तान्निगृह्य जग्राह तानि, पादेन स्पर्शञ्च परिहृतवांस्तेषाम् । यथास्य पादस्पर्शपरिहारो गुणोऽपि शस्त्रव्यापारेणोपहतत्वान्न गुणः, किन्तु दोष एव, एवं गुरुकुलवासद्वेषिणां शुद्धोञ्छादि योजनीयमिति 6 (उप.प.६७७वृ.) ।
ग्रन्थकृदुदाहरति वारिधाविव नौभङ्ग इति । तदुक्तं उपदेशरहस्येऽपि → सुटुंछाईसु जत्तो गुरुकुलचागाइणा ण हियहेऊ । हंदि भुयाहिं महोअहितरणं जह पोअभंगेण ।। 6 (उप.रह. १०६) मुक्त्यद्वेषद्वात्रिंशिकायां (भा.३, पृ.९००) ग्रन्थकृदपि भौतघातकोदाहरणं वक्ष्यतीत्यवधेयम् ।।३/१८।। છે. તેમ સ્વછંદ સાધુઓની નિર્દોષ ગોચરીચર્યા વગેરે આચારશુદ્ધિ પણ ભવસાગરમાં તરવાના બદલે डूबवान ३॥ आपना२ बने छ. (3/१८)
विशेषार्थ :- 'वा' श६ द्वा२ग्रंथा२श्री व्यवस्था सूयित ४२८ छे. हा व्यवस्था में समाजवी १. मुद्रितप्रतौ 'विपरीतं फलं.....' इत्यशुद्धः पाठः । हस्तादर्श 'विलं' इति त्रुटितः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org