SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ १४८ • मातृस्थानतो यत्किञ्चिदालम्बननिषेधः . द्वात्रिंशिका-३/५ ऽनेकान्तमर्यादातिक्रमप्रसङ्गादिति भावः ।।५।। र्यादाऽतिक्रमप्रसङ्गात् । न ह्येकान्तेन विहितं निषिद्धं वा किञ्चित्स्याद्वादिभिस्तीर्थङ्करैः । तदुक्तं निशीथभाष्य-बृहत्कल्पभाष्योपदेशरहस्यादौ → ण वि किंचि अणुण्णायं पडिसिद्धं वा वि जिणवरिंदेहिं । एसा तेसिं आणा कज्जे सच्चेण होअव्वं ।। 6 (नि.भा.५२४८/५३७१, बृ.क.भा.३३३०, उप.रह.१३९) इति । पुष्पमालायामपि → पडिसेहो अ अणुन्ना एगंतेण न वनिया समए । एसा जिणाण आणा कज्जे सच्चेण होअव्वं ।। (पु.मा.२४७) इति । राग-द्वेषादिविलय एव यतितव्यमित्याज्ञा पारमेश्वरी । तदुक्तं उपदेशरहस्ये अध्यात्ममतपरीक्षायाञ्च → किं बहुणा ? इह जह जह रागद्दोसा लहुं विलिज्जंति । तह तह पयट्टिअव्वं एसा आणा जिणिंदाणं ।। 6 (उप.रह.२०१,अ.म.प.गा.२८३) इति । तदुक्तं निशीथभाष्ये पञ्चवस्तुके उपदेशपदे पुष्पमालायाञ्च → दोसा जेण निरुज्झंति जेण खिझंति पुव्वकम्माई । सो सो मुक्खोवाओ रोगावत्थासु समणं व ।। 6 (नि.भा.गा.५२५०, पं.व.२८१, उ.प.७८३, पु.मा.गा.२४८) इति पूर्वोक्तं(पृ.१३९)स्मर्तव्यम् । द्वात्रिंशिकाप्रकरणे श्रीसिद्धसेनदिवाकरेणापि → येन दोषा निरुध्यन्ते ज्ञानेनाऽऽचरितेन वा। स सोऽभ्युपायस्तच्छान्तावनासक्तवैद्यवत् ।। (सिद्ध द्वा.द्वा.२०/६) इति। सर्वत्र सद्भावसारेण भाव्यं न तु मातृस्थानतो यत्किञ्चिदालम्बनीयमित्युपदेशः । ततश्च प्रकृते उत्सर्गतो निषिद्धमपि पुष्टालम्बनेनाऽशठसंविग्नगीतार्थैराचरितं न दूषणीयम्, अपि त्वादरेण प्रमाणीकर्तव्यमिति ध्वन्यते । न च → 'आयरणाऽवि अविरुद्धगा आणा' (उप.र.१४५) इत्यादिना उपदेशरहस्ये उक्तत्वादागमनिषिद्धस्याऽऽचरितस्याऽप्रमाणत्वमेवेति शङ्कनीयम्; 'दोसा जेण निरुज्झंति जेण खिमंति पुव्वकम्माई' (नि.भा.५२५०, पु.मा.२४८) इत्यादिलक्षणाया एवाऽऽज्ञाया अविरुद्धत्वस्याऽऽचरितेऽपेक्षितत्वात् । यथा चैतत्तत्त्वं तथा व्युत्पादितं श्रीमुनिचन्द्रसूरिभिः ‘आयरणा वि हु आणाऽविरुद्धगा चेव होति नायं तु। इहरा तित्थगराऽऽसायणत्ति' ।। (उप.प.८१२) इति उपदेशपदगाथायाः सुखसम्बोधिन्यां वृत्तौ। युक्तञ्चैतत्, अन्यथा शस्त्रपरिज्ञाध्ययनाभ्यासानन्तरमेवोपस्थापनाया विहितत्वेन तत्पूर्वं सामर्थ्यतो निषिद्धायास्तस्यास्सर्वैरेवाऽविगानेन साम्प्रतं शस्त्रपरिज्ञापरिशीलनकालात्प्रागेव क्रियमाणत्वेनाऽप्रमाणत्वापत्तेः। वस्तुतस्तु अत्यन्तगर्हणीयं मैथुनादिकं विमुच्योत्सर्गतो यदागमनिषिद्धं तत्किमपि देश-काल-पुरुषादिपुष्टालम्बनेनाऽशठसंविग्नगीतार्थाऽऽचरितं सत्प्रमाणीकर्तव्यमिति भावः । इदमेवाभिप्रेत्योक्तं धर्मरत्नप्रकरणे→ जं सव्वहा न सुत्ते पडिसिद्धं नेव जीववहहेउ । तं सव्वंपि पमाणं चारित्तधणाण भणियं च ।। अवलंबिउण कज्जं जं किं पि समायरंति गीयत्था । थोवावराहबहुगुणं सव्वेसिं तं पमाणं तु ।। -(ध.र.प्र.८४/८५) इति । प्रकृते 'आचरितं = कर्तव्यत्वेनाऽशठगीतार्थैः विहितमि'त्यर्थः कार्यः ।।३/५ ।। નિષેધનો સંવેધ જિનવચનમાં જો ન હોય તો અનેકાન્તવાદની મર્યાદાનું ઉલ્લંઘન જ થઈ જાય. (૩૫) વિશેષાર્થ :- વાણિયો જેમ લાભ-નુકસાનની તુલના કરીને ધંધામાં પ્રવૃત્તિ કરે છે તેમ કર્મનિર્જરા, પુણ્યબંધ વગેરે આધ્યાત્મિક લાભ અને અસમાધિ, શાસનહીલના, સંયમવિરાધના વગેરે નુકશાનોની તુલના કરીને આરાધનામાં પ્રવૃત્તિ કરવી આવી જિનાજ્ઞા છે. જેમ ધંધામાં એકાંતે કોઈ સિદ્ધાન્ત નથી હોતા તેમ ધર્મમાં પણ સમજવું. નફો થાય તેમ ધંધો કરવો એ ધંધાનો મુખ્ય સિદ્ધાંત છે. તેમ કર્મનિર્જરાવિશુદ્ધપુણ્યબંધ વગેરે થાય તેમ આરાધના કરવી એ ધર્મનો મુખ્ય સિદ્ધાન્ત છે. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004938
Book TitleDwatrinshada Dwatrinshika Prakran Part 1
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages478
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy