________________
• पदार्थ-वाक्यार्थाद्यनुगतश्रुतोपयोगमीमांसा • स्परविभिन्नोक्तपदार्थविषयं) तु न, तस्य सन्देहरूपत्वात्।
यैस्तु वाच्यार्थमात्रविषयस्यात्र व्यवच्छेद उच्यते, तैर्विशकलितस्यैवायमेष्टव्यः, न तु दीर्धेकोपयोगानुस्यूतस्य पदवाक्यमहावाक्यैदम्पर्यार्थमूर्तिकस्य, तस्य उपदेशपदप्रसिद्धत्वादिति ध्येयम् । तस्य = मिथोविलक्षणनिश्चयव्यवहारादिनय-नामादिनिक्षेप-प्रत्यक्षादिप्रमाण-स्वदर्शन-परदर्शनोत्सर्गापवाद-द्रव्यक्षेत्र-काल-कर्म-पुरुषकार-स्वभाव-नियति-न्याय-व्याकरण-ज्योतिर्विद्या-मन्त्र-चिकित्सादिविशकलितपदार्थमात्रगोचरज्ञानस्य सन्देहरूपत्वात् = संशयात्मकत्वेनाज्ञानत्वात् । इत्थञ्च विशकलित-विलक्षणवाच्यार्थमात्रविषयं श्रुतज्ञानमत्र व्यवच्छिद्यते इति फलितम् ।
यैस्तु वाच्यार्थमात्रविषयस्य = वाच्यार्थमात्रावगाहित्वस्य अत्र = प्रथमे श्रुतज्ञाने व्यवच्छेदः = निषेधः उच्यते तैः विशकलितस्य = मिथोविशृङ्खलस्य वाक्यार्थ-महावाक्याथैदम्पर्यार्थाऽसम्बद्धस्य एव वाच्यार्थमात्रविषयकत्वस्य अयं व्यवच्छेदः एष्टव्यः = स्वीकर्तव्यः । एवकारफलमाह- न तु दीर्घकोपयोगानुस्यूतस्य = प्रदीर्घकालीनाऽखण्डैकोपयोगानुविद्धस्य पद-वाक्य-महावाक्यैदम्पर्यार्थ मूर्तिकस्य ऐदम्पर्यार्थपर्यन्तबोधघटकीभूतस्य पदार्थमात्रविषयकत्वस्य प्रकृतश्रुतज्ञाने व्यवच्छेद एष्टव्यः, तस्य = पद-वाक्य-महावाक्यैदम्पर्यावगाहिशास्त्रतत्त्वपरिच्छेदस्य उपदेशपदप्रसिद्धत्वात् । तदुक्तं श्रीहरिभद्रसूरिभिः उपदेशपदे → पय-वक्क-महावक्कत्थमेदंपज्जं च एत्थ चत्तारि । सुयभावावगमम्मि हंदि पगारा विणिहिट्ठा ।। ___(उप.प. ८५९) इति । ततश्च पदार्थ-वाक्यार्थ-महावाक्यार्थेदम्पर्यार्थगोचराऽखण्डैकोपयोगघटकीभूतं वाच्यार्थापराभिधानपदार्थमात्रावगाहित्वं श्रुतज्ञाने नैव व्यवच्छिद्यते । न हि भावनाज्ञानस्यैदम्पर्यार्थविषयकत्वमिव चिन्ताज्ञानस्य वा वाक्यार्थ-महावाक्यार्थविषयकत्वमिव श्रुतमयज्ञानस्य पदार्थविषयकत्वं विरुध्यते । श्रुतज्ञानेन यद् वस्तु यथा ज्ञायते ततो विशदं चिन्ताज्ञानेन ततोऽपि विशदतरं तदेव भावनाज्ञानेनाऽवसीयत इति शास्त्रमर्यादाऽपि श्रुतमयज्ञानस्य केवलवाच्यार्थविषयकत्वाऽनुपगमे विशीर्येत । ततश्च → न हि श्रुतमय्या प्रज्ञया, भावनादृष्टज्ञातं ज्ञातं नाम - (ध.बि.६/३१) इति धर्मबिन्दुसूत्रमप्यनुत्थानपराहतं स्यात् । न ह्यनाशङ्कितं व्यवच्छिद्यते, कुतोऽपि प्रसक्तस्यैव प्रकारान्तरेण प्रतिषेधसम्भवात् । ‘प्रसक्तं प्रतिषिध्यते' इति न्यायोऽप्येतदर्थानुपात्येव । અને બીજું શાસ્ત્રવચન અપવાદનું હોય અથવા એક શાસ્ત્રવચન નિશ્ચયનયનું પ્રતિપાદન કરતું હોય અને અન્ય શાસ્ત્રવચન વ્યવહાર નયનું પ્રતિપાદન કરતું હોય - આવા પરસ્પર વિલક્ષણ વચનોના માત્ર શબ્દાર્થનું અવગાહન કરનાર જ્ઞાન સંશયાત્મક હોવાને કારણે અજ્ઞાન સ્વરૂપ હોય છે.)
ફ શ્રુતજ્ઞાનસ્વરૂપ વિશે અન્ય મત છે यैस्तु. । ४ विद्वानो मेम छ "मात्र वाथ्यार्थविषय बोधनी प्रस्तुत श्रुतशानमाथी नाही થાય છે.” તેઓનો અભિપ્રાય એવો સમજવો જોઈએ કે પરસ્પર અસંબદ્ધ અને વાક્યર્થ, મહાવાક્યર્થ વગેરે સાથે નહિ સંકળાયેલ એવા માત્ર શબ્દાર્થનો બોધ કરનાર જ્ઞાન પ્રસ્તુત શ્રુતજ્ઞાનમાં સમાવેશ પામતું નથી. (અર્થાત્ આગળ વધતાં ચિન્તાજ્ઞાન અને ભાવનાત્તાનમાં જે પદાર્થબોધ પરિણમતો નથી તે પ્રસ્તુત શ્રુતજ્ઞાનમાં વિવક્ષિત નથી.) દીર્ઘકાલીન અખંડ એક ઉપયોગમાં વણાયેલા પદાર્થ, વાક્યાર્થ, મહાવાક્યાર્થ,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org