________________
• श्रुतमयज्ञानस्य प्रमाणाद्यवगमशून्यता •
९५ ____ तत्र श्रुतं सर्वानुगात् = सर्वशास्त्राविरोधिनिर्णीतार्थात् वाक्यात् प्रमाणनयवर्जितात्' = प्रमाणनयाधिगमरहितात्, पदार्थमात्रावग्रहोत्तरस्य वाक्यार्थस्य कथम्भावाकाङ्क्षागर्भत्वेनेहारूपत्वात्, परतन्त्रपदार्थसमवतारकुशलैः, जिनप्रवचने एव तत्त्वतः तदुपपत्तेरिति वक्ष्यामः (पृ.१०६) ।
तत्र ज्ञानत्रितयमध्ये श्रुतं सार्धकारिकया व्याख्यानयति सर्वशास्त्राविरोधिनिर्णीतार्थात् = प्रकृतवाक्यैकवाक्यताऽऽपन्नसकलशास्त्रार्थाऽविरुद्धनिश्चितविषयकात् प्रमाण-नयाधिगमरहितात् = सर्वनयसमूहात्मकसकलादेशानेकान्ताद्यपराभिधान-सप्तभङ्गीगुम्फितसिद्धान्तलक्षणप्रमाणनिर्देशेन नानानयोल्लेखेन च शून्यात् वाक्याद् ‘उत्पन्नमि'त्यत्रान्वीयते ।
अयमाशयः विवक्षितवाक्येन सहैकवाक्यतापन्नं यत् सर्वशास्त्रवचनं तदर्थस्याविरोधी यो निश्चितोऽर्थः तत्प्रतिपादकवाक्यजन्यं ऊहापोहादिशून्यं यथाश्रवणं ज्ञानं श्रुतमुच्यते । यथा 'हिंसिज्ज न भूयाई' (उ.प.८६५) इति उपदेशपदवाक्येन सहैकवाक्यतामापन्नानि यानि 'सव्वे जीवा वि इच्छंति जीविउं' (दशवैकालिक-६/११), 'हंतव्वा नो भूआ सव्वे' (उपदेशरहस्य-१५९), 'न हिंस्यात् सर्वभूतानि' (महाभारतशांति.२८४/६, वनपर्व.२१३/३४) इत्यादीनि सकलशास्त्रवचनानि तेषामर्थस्याविरोधी यो निर्णीतोऽर्थः 'जीवहिंसनं बलवदनिष्टानुबन्धी ति तत्प्रतिपादकात् 'हिंसिज्ज न भूयाई' (उ.प.८६५) इति वाक्यादुत्पन्नं दृष्टेष्टविरुद्धत्वज्ञानविरहेणाऽप्रामाण्यज्ञानाऽनास्कन्दितं प्रमाण-नयाधिगमशून्यं ज्ञानं श्रुतमुच्यते । तादृशश्रुतज्ञानजनकं यद्वचनं तस्य वक्तरि तीर्थङ्कर-गणधर-बहुश्रुताशठगीतार्थाचार्यादौ रागादिराहित्ययथावस्थितार्थप्रकाशकत्वाभ्रान्ततत्त्वज्ञानादिगुणगणस्य श्रोतृगतबोधनिष्ठप्रामाण्यप्रयोजकस्य सत्त्वात्तादृशश्रुतज्ञानस्य प्रामाण्यमनाविलमेव ।
इत्थञ्च स्वाश्रयोक्तवचनजन्यत्वसम्बन्धेन वक्तृगतगुणयुक्तत्वे सति अप्रामाण्यज्ञानाऽनास्कन्दितत्वे सति श्रोतृगतोहापोहादिगुण-मदेादिदोषरहितं पदार्थमात्रगोचरं ज्ञानं श्रुतमिति यावत् तात्पर्यम् । न च पदार्थग्रहोत्तरकालीनमूहापोहात्मकं ज्ञानं कथं न श्रुतमिति शङ्कनीयम्, यतः पदार्थमात्रावग्रहोत्तरस्य = केवलशब्दार्थग्रहोत्तरकालीनस्य वाक्यार्थस्य किञ्चिद्विरुद्धत्वेन प्रतिभासमानार्थगोचरस्य प्रश्नात्मकस्य कथम्भावाकाङ्क्षागर्भत्वेन = ‘अयं पदार्थ एवमेव कथमुक्तः ?' इत्याकाङ्क्षागुम्फितत्वेन इहारूपत्वात् न प्रकृतश्रुतज्ञाने समावेशसम्भवः। न च प्रमाण-नयपरिच्छेदसहितत्वे कथं न तज्ज्ञानस्य श्रुतत्वम् ? इति
. श्रुताननुं स्व३५ . સર્વ શાસ્ત્ર સાથે જેના યથાશ્રુત અર્થનો કોઈ વિરોધ ન આવે તેવા અર્થનો નિર્ણય કરનાર તેમજ પ્રમાણનયથી રહિત એવા વાક્યથી, યથાશ્રુત અર્થનો નય-પ્રમાણના બોધથી રહિત એવો જે બોધ થાય તે શ્રુતજ્ઞાન છે. અર્થાત્ સર્વ શાસ્ત્રથી અબાધિત એવો યથાશ્રુત પદાર્થનો બોધ તે શ્રુતજ્ઞાન કહેવાય. આ પ્રકારે થતાં બોધમાં નય-પ્રમાણની વિવક્ષા હોતી નથી. પરંતુ માત્ર પદાર્થનો બોધ થયા પછી જે વાક્યર્થનો બોધ થાય તે શ્રુતજ્ઞાનમાં સમાવિષ્ટ નથી. કારણ કે વાક્યાર્થબોધ તો “અહીં આવું કેમ કહ્યું?” આવી જિજ્ઞાસાથી ગર્ભિત હોવાના કારણે ઈહાસ્વરૂપ = ચિંતનાત્મક છે. તથા પ્રસ્તુત શ્રુતજ્ઞાનમાં નય કે પ્રમાણનો બોધ સમાવિષ્ટ હોતો નથી. १. मुद्रितप्रतौ ....तर्थात्' इति त्रुटितः पाठः । २. हस्तादर्श '..वर्जित् प्र...' इति त्रुटितः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org