________________
• गुरुधर्मस्याऽपि शक्यताच्छेदकता • 'नास्ति, पदं चोच्यते' इत्ययमुन्मत्तप्रलापः । ___ अन्त्ये चोक्तदोषतादवस्थ्यमिति शिष्यध्यन्धनमात्रमेतत् । रादिस्थले 'प्रवृत्तिनिमित्तं = जीवघातपरिणामजन्यत्वलक्षणं विराधनापदप्रवृत्तिनिमित्तं नास्ति, पदं च = विराधनापदं हि उच्यते = पदार्थश्च प्रतिपाद्यते' इति प्रकारः अयं = 'साधुनधुत्तारादिस्थलीयायां जलादिजीवविराधनायां विराधनापदप्रवृत्तिनिमित्तं नास्ती'त्येवंलक्षण उन्मत्तप्रलापः। न हि पदप्रवृत्तिनिमित्तशून्ये पदप्रयोगो भवितुमर्हति । यथा गोपदप्रवृत्तिनिमित्तशून्ये = गोत्वशून्ये अश्वादौ ‘अयं गौः' इति गोपदप्रयोगमनुन्मत्तो नैव करोति तथा विराधनापदप्रवृत्तिनिमित्तभूतजीवघातपरिणामजन्यत्वशून्ये साधुनद्युत्तारादौ विराधनापदप्रयोगं भवान् नैव कुर्यात्, यदि अनुन्मत्तः स्यात् । न च गोपदप्रवृत्तिनिमित्तशून्येऽपि गवाकृतिपरिकलिते लेप्यपिण्डादौ गोपदप्रयोगस्याऽस्खलद्वृत्त्या दर्शनान्नोन्मत्तप्रलापप्रसङ्ग इति वाच्यम्, स्थापनागवादावपि गोपदप्रवृत्तिनिमित्तस्याऽङ्गीकारात्, व्युत्पन्नस्य यत्पदात् यावद्धर्मावच्छिनमस्खलद्वृत्त्योपतिष्ठते तावद्धर्माणां तत्पदप्रवृत्तिनिमित्तत्वस्य न्याय्यत्वात्, लक्ष्यतावच्छेदकत्वस्येव शक्यतावच्छेदकत्वस्य गुरुण्यपि स्वीकारादिति (त.सू.अ.१ । सू.५-पृ.१४४) व्यक्तमुक्तं प्रकृतग्रन्थकृता तत्त्वार्थटीकायाम् । ततश्चोन्मत्तप्रलापापत्तेराद्यो विकल्पो न भवतां श्रेयोलताविवृद्धये ।
ननु वस्तुनि पदप्रवृत्तिनिमित्तभिन्नान्यपि नानास्वरूपाणि सन्त्येव यानि विशेषणविधया कक्षीक्रियन्ते । अतोऽत्र माऽस्तु जीवघातपरिणामजन्यत्वस्य विराधनापदप्रवृत्तिनिमित्तत्वं किन्तु विराधनाविशेषणत्वं तु स्यादेवेत्यस्मत्कल्याणकन्दलीपरिपोषकनीरस्थानीयो द्वितीयः पक्ष एवाभ्युपेयतेऽस्माभिरित्याशङ्कायां ग्रन्थकारः प्राह अन्त्ये च = 'जीवघातपरिणामजन्यत्वं विराधनाविशेषणमिति द्वितीये पक्षे हि विशिष्टप्रतिबन्धकत्चपर्यवसानेन उक्तदोषतादवस्थ्यं = स्वनिरूपितजन्यतासम्बन्धेन जीवघातपरिणामलक्षणविशेषणविशिष्टविराधनायाः निर्जराप्रतिबन्धकत्वमते विशेष्याभावप्रयुक्तस्य विशिष्टाभावस्य प्रतिबन्धकाभावस्थानीयस्य जीवघातपरिणामलक्षणशुद्धविशेषणस्वरूपस्य निर्जराहेतुत्वापत्तिलक्षणो यः पूर्वोक्तदोषः स तदवस्थ एव इति शिष्यध्यन्धनमात्रं = स्वमुग्धशिष्यबुद्धेरन्धीकरणमेव केवलं एतत् = 'वर्जनाभिप्रायजन्यां निर्जरां प्रति जीवघातपरिणामाऽजन्यत्वेन विराधनायाः प्रतिबन्धकाभावत्वेन कारणत्वमिति प्रतिपादनम् । સ્વરૂપ વિરાધનાપદપ્રવૃત્તિનિમિત્ત નથી એમ બોલવું - એ ઉન્મત્તપ્રલાપ તુલ્ય છે. કારણ કે ત્યાં વિરાધનાપદનું પ્રવૃત્તિનિમિત્ત નથી અને વિરાધના શબ્દનો પ્રયોગ તમે કરો છો.
જીવઘાતપરિણામજન્યત્વને જીવવિરાધના પદાર્થનું વિશેષણ માનવામાં આવે તો પૂર્વોક્ત દોષ તે જ અવસ્થામાં રહેશે. (અર્થાત્ જીવઘાતપરિણામજન્યત્વ સ્વરૂપ વિશેષણથી વિશિષ્ટ વિરાધના એ કર્મનિર્જરા પ્રત્યે પ્રતિબંધક છે - એવું માનવામાં કેવલ જીવઘાતપરિણામને પ્રતિબંધકાભાવ તરીકે નિર્જરાકારણ માનવાનો જે દોષ ઉપર જણાવી ગયાં તે દોષ દૂર નહિ થાય.) માટે “વર્જનાભિપ્રાયથી વિરાધનાનું જીવઘાત-પરિણામજન્યત્વાત્મક સ્વરૂપ દૂર કરાય છે - આવું કહેવું તે માત્ર મુગ્ધ શિષ્યની બુદ્ધિને આંધળી કરવા જેવું છે.
१. 'नास्तिपदं चोच्यत' इत्यशुद्धः पाठो मुद्रितप्रतौ । २. हस्तादर्श 'शिष्यधंध...' इत्यशुद्धः पाठः । Jain Education International
For Private & Personal Use Only
www.jainelibrary.org