SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ ● शुद्धाशुद्धदाने बृहत्कल्पवृत्तिसंवादः • द्वात्रिंशिका -१/२३ भवेदिति । पात्रविशेषे वा आगमाभिहितस्वरूपक्षपकादिरूपे, कारणे वा तथाविधे दुर्भिक्ष-दीर्घाध्वग्लानत्वादिरूपे आगाढे अशुद्धस्यापि दानं हि सुपात्राय द्वयोः = दातृगृहीत्रोः लाभाय भवेत्, दातुर्विवेकशुद्धान्तःकरणत्वात्, ग्रहीतुश्च गीतार्थादिपदवत्त्वात् । नान्यथा = • पात्रविशेषस्य कारणविशेषस्य वा विरहे ।। २३ ।। ४८ दातृ-गृहीत्रोः लाभायेति । तदुक्तं बृहत्कल्पभाष्ये निशीथभाष्ये दर्शनशुद्धिप्रकरणे च संथरणंमि असुद्धं दुन्नवि गिण्हंत-दिंतयाणऽहियं । आउरदिट्टंतेणं तं चेव हियं असंथरणे ।। (नि.भा. १६५० + बृ.क.भा.१६०८ + द.शु. १२८ ) ← इति । बृहत्कल्पवृत्तिश्चैवम् संस्तरणं नाम प्राशुकमेषणीयं चाशनादि पर्याप्तं प्राप्यते, न च किमपि ग्लानत्वं विद्यते तत्र 'अशुद्धम्' अप्राशुकमनेषणीयं च गृह्णतो ददतश्च द्वयोरपि 'अहितं' अपथ्यम्, गृह्णतः संयमबाधाविधायित्वाद् ददतस्तु भवान्तरे स्वल्पायुर्निबन्धनकर्मोपार्जनात् । ' तदेव' अशुद्धम् 'असंस्तरणे' = अनिर्वाहे दीयमानं गृह्यमाणं च हितं पथ्यं भवति । आह कथं तदेव कल्प्यं तदेव चाकल्प्यं भवितुमर्हति इति ? उच्यते- आतुरः = रोगी तस्य दृष्टान्तेनेदं मन्तव्यम् । यथा हि रोगिणः कामप्यवस्थामाश्रित्यान्नौषधादिकमपथ्यं भवति, काञ्चित् पुनः समाश्रित्य तदेव पथ्यम्, एवमिहापि भावनीयम् ← (बृ. क. भा. १६०८ वृत्ति ) इति । एतेन भावशुद्धिसमायुक्तमस्तकर्माण्यतो ध्रुवम् । आपद्धर्मे भजत्येव सद्धर्मत्वं न संशयः ।। कदाचिदत एवाऽलमापद्धर्मस्य निर्णये । अधर्मेणाऽपि धर्मस्य स्वरूपे परिणम्यते ।। - = = - - ← (शं.गी.१।१२४,१२९) इदि शम्भुगीतावचने अपि व्याख्याते, अधिकारिकर्तृकत्व-विधि-यतनाविवेकाऽऽशयशुद्ध्यादिनाऽऽपद्धर्मत्वेन विहितस्याऽसत्कर्मणोऽपि सद्धर्मत्वानतिक्रमात् । अत एव जैनगीतायां → उत्सर्गमपवादं हि धर्मं द्रव्यादितः खलु । जानन्ति ज्ञानतः सम्यक् ते नरा धर्मकारकाः । । ← (जै.गी.२३९) इत्येवमुक्तं श्रीबुद्धिसागरसूरिभिः । निषिद्धमप्याचरणीयमापदि क्रिया सती नाव यत्र सर्वथा ← (नै.च.९/३७) इति नैषधीयचरितवचनमप्यऽत्राऽनुसन्धेयम् । अत एव जैनगीतायामपि → जैनाचार्यादिकं पृष्ट्वा आज्ञां सन्मान्य सूरीणाम् । दानं देयं सुक्षेत्रेषु साध्वादिषु विवेकतः ।। ← (जै.गी. ३९) इत्युक्तमित्यवधेयम् । ग्रहीतुश्च गीतार्थादिपदवत्त्वात् । आदिपदेन यतनादिग्रहणम् । तदुक्तं बृहत्कल्पभाष्ये → गीयत्थो * સુપાત્રદાનનો બીજો ભાંગો ગાથાર્થ :- પાત્રવિશેષ કે તથાવિધ કારણ ઉપસ્થિત હોય ત્યારે દોષિત એવા અન્નાદિનું દાન પણ जन्नेना लाल भाटे थाय छे. जाडी नहि. (१/२3) ટીકાર્થ :- આગમમાં જણાવેલ ઉગ્ર તપસ્વી વગેરે સ્વરૂપ પાત્રવિશેષ અથવા તો દુકાળ, લાંબો વિહાર, માંદગી વગેરે સ્વરૂપ આગાઢ કારણ ઉપસ્થિત હોય ત્યારે દોષિત એવા અન્નાદિ સુપાત્રને આપવામાં આવે તો તે દાન લેનાર અને આપનાર બન્નેના લાભ માટે થાય છે. કારણ કે તેવી અવસ્થામાં દાન દેનારનું અંતઃકરણ વિવેકદૃષ્ટિથી શુદ્ધ થયેલું હોય છે અને તેવા આહાર આદિ ગ્રહણ કરનાર સાધુભગવંત પણ ગીતાર્થ, યતનાયુક્ત વગેરે પદથી યુક્ત હોય છે. જો અનેષણીય આહાર વગેરે લેનાર વ્યક્તિ ગીતાર્થ આદિ વિશેષણથી યુક્ત ન હોય અથવા તો દુકાળ, લાંબો વિહાર વગેરે વિશિષ્ટ કારણ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004938
Book TitleDwatrinshada Dwatrinshika Prakran Part 1
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages478
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy