________________
• अपात्रदानस्यानिष्टफलदत्वम् • द्वात्रिंशिका-१/२२ 'शुद्धं दत्त्वा सुपात्राय सानुबन्धशुभार्जनात् । सानुबन्धं न बध्नाति पापं बद्धं च मुञ्चति ।।२२।। ___ शुद्धमिति । सुपात्राय = प्रतिहतप्रत्याख्यातपापकर्मणे शुद्धं अन्नादिकं दत्त्वा सानुबन्धस्य
परेषामप्यपात्रदानमनिष्टफलदत्वेनाभिमतम् । तदुक्तं बृहत्पराशरस्मृतौ → अपात्रस्य हि यद्दत्तं दानं स्वल्पमपि द्विजाः !। ग्रहीता तत्क्षणाद्याति भस्मत्वं चाऽप्यवारितः ।। - (बृ.परा.६/२४३) इति । प्रकृते → कुपात्रेषु तथा दत्तं दानं कुफलदं भवेत् + (प.पु. ३७१) इति पद्मपुराणवचनमप्यनुसन्धातव्यम् । ___यत्तु मज्झिमनिकाये दक्षिणाविभङ्गसूत्रे सुगतेन → भविस्सन्ति खो पनानन्द ! अनागतमद्धानं गोत्रभुनो कासावकण्ठा दुस्सीला पापधम्मा । तेसु दुस्सीलेसु सचं उद्दिस्स दानं दस्सन्ति । तदापाहं, आनन्द, सङ्घगतं दक्खिणं असोय्यं अप्पमेय्यं वदामि । न त्वेवाहं, आनन्द केनचि परियायेन सङ्घगताय दक्षिणाय पाटिपुग्गलिकं दानं महफलतरं वदामि . (म.नि. ३/४/१२/३८०,पृ.३०६) इत्युक्त्या भविष्यकालीनस्वसम्प्रदायवर्तिदुःशीलभिक्षुसम्प्रदानकस्य दानस्याऽसङ्ख्याऽप्रमेयफलकत्वमुपदर्शितं तत्तु → ये ते समणब्राह्मणा चक्खुवि य्येसु रूपेसु अवीतरागा, अवीतदोसा, अवीतमोहा, अज्झत्तं अवूपसन्तचित्ता, समविसमं चरन्ति कायेन वाचाय मनसा, एवरूपा समण-ब्राह्मणा न चक्खुवि य्येसु रूपेसु अवीतरागा, अवीतदोसा, अवीतमोहा, अज्झत्तं अवूपसन्तचित्ता, समविसमं चराम कायेन वाचाय मनसा, तेसं नो समचरियम्पि हेतं उत्तरि अपस्सतं । तस्मा ते भोन्तो समण-ब्राह्मणा न सक्कातब्बा, न गरुकातब्बा, न मानेतब्बा, न पूजेतब्बा । ये ते समण-ब्राह्मणा सोतविद्येय्येसु सद्देसु... घानविज्ञेय्येसु गन्धेसु... जिव्हाविद्येय्येसु रसेसु... कायविद्येय्येसु फोहब्बेसु... मनोविज्ञेय्येसु धम्मेसु अवीतरागा, अवीतदोसा, अवीतमोहा, अज्झत्तं अवूपसन्तचित्ता, समविसमं चरन्ति कायेन वाचाय मनसा, एवरूवा समण-ब्राह्मणा न सक्कातब्बा, न गरुकातब्बा, न मानेतब्बा, न पूजेतब्बा - (म.नि.३/५/८/४३५ पृ.३५३) इत्येवं मज्झिमनिकायगतनगरविन्दीयसूत्रोक्तित एव निरस्तं वेदितव्यं मध्यस्थैः ।।१/२१ ।।
ननु संयताय शुद्धदाने भक्तिजन्यसातवेद्यबन्धेन विरुध्यन्नसातबन्धो मा भूत्, व्यवहारतः पृथिव्याधुपमर्दात् संयतशुद्धदानस्य ज्ञानावरणीयादिबन्धहेतुत्वादेव 'नत्थि य से पावे कम्मे कज्जति' (व्या.प्र.८/६/३३१) इति व्याख्याप्रज्ञप्तिवचनं व्याहन्यत इति चेत् ? मैवम्, श्रुणु, ज्ञानावरणपञ्चकं, दर्शनावरणनवकं, विघ्नपञ्चकं, वर्णचतुष्कं, तैजसं, कार्मणं, अगुरुलघु, निर्माणोपघात-भय-कुत्सा-मिथ्यात्वमिति सप्तचत्वारिंशत् कर्मप्रकृतयो ध्रुवबन्धिन्य उच्यन्ते। तद्बन्धहेतुता सुपात्रदानलक्षणद्रव्यस्तवस्थलीयायां हिंसायां वक्तुं न
ગાથાર્થ :- સુપાત્રને શુદ્ધ દાન આપીને સાનુબંધ શુભકર્મ બાંધવાને લીધે દાતાર સાનુબંધ પાપ नथी Miuतो भने पूर्व बांधेतुं ५ छो3 छ. (१/२२)
હ શુદ્ધ સુપાત્રદાનનું ફળ છે ટીકાર્ય - જેમણે પૂર્વે બાંધેલા પાપને હણી નાંખેલ છે તથા ભવિષ્યકાલીન પાપનો ત્યાગ કરેલ છે. એવા સુપાત્રને આધાકર્મ વગેરે ૪૨ દોષોથી રહિત એવું શુદ્ધ અન્ન વગેરે ભક્તિથી આપીને દાતાર १. हस्तादर्श 'शुद्ध' इत्यशुद्धः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org