________________
४२
• संविग्नपाक्षिकस्य सत्यार्थदेशकता •
उ मिच्छत्तं ।। ” ( पंचा. १२/१७) इति' (अष्टक २७/७ वृत्ति) ।। १९।। भक्तिस्तु भवनिस्तारवाञ्छा स्वस्य सुपात्रतः । तया दत्तं सुपात्राय बहुकर्मक्षयक्षमम् ।। २० ।। भक्तिस्त्विति । भक्तिस्तु स्वस्य सुपात्रतो भवनिस्तारवाञ्छा । आराध्यत्वेन ज्ञानं भक्तिः, पञ्चाशकसंवादमुपदर्शयति- 'संविग्गो' इत्यादिना । → संविग्नो भवभीरुर्गुरुः अनुपदेशं = नञः कुत्सार्थत्वेन कुत्सितोपदेशमागमबाधितार्थानुशासनं न ददाति परस्मै न करोति, तद्दाने संविग्नत्वहानिप्रसङ्गात् । किम्भूतः सन्नित्याह - दुर्भाषितं = अनागमिकार्थोपदेशं कटुविपाकं =दारुणफलं दुरन्तसंसारावहं मरीचिभवे महावीरस्येव जानन् अवबुध्यमानः । कोहि ( भवभीरुः ) पश्यन्नेवात्मानं कूपे क्षिपतीति । यस्मादेवं ततः तस्मिन् संविग्ने कल्पाकल्पपरिनिष्ठितादिगुणे सद्गुरौ गीतार्थे संविग्नपाक्षिके च प्रज्ञापयति सति तथेति निर्विकल्पं अतथाकारः = तथाकारस्याप्रयोगः। तुशब्द एवकारार्थस्तस्य चैवं प्रयोगः मिध्यात्वमेव = असम्यग्दर्शनमेव मिथ्यात्वहेतुकत्वात्तस्य । न हि मिथ्यात्वं विना निश्चितशुद्धप्ररूपकत्वेऽपि प्रज्ञापके तथाकारं न प्रयुङ्क्ते ← (पञ्चा. १२/१७ वृ.) इति पञ्चाशकवृत्तिकारः । युक्तञ्चैतत् । न हि संविग्नपाक्षिकः स्वहीनाचारं समर्थयति किन्तु निन्दत्येव । उपदेशमालायां श्रीधर्मदासगणिनाऽपि → संविग्गपक्खियाणं लक्खणमेयं समासओ भणियं । ओसन्नचरणकरणाऽवि जेण कम्मं विसोहंति ।। सुद्धं सुसाहुधम्मं कहेइ, निंदइ य निययमायारं । सुतवस्सियाणं पुरओ होइ य सव्वोमरायणीओ ।। णस्स वि सुद्धपरूवगस्स, संविग्गपक्खवायस्स । जा जा हविज्ज जयणा, सा सा से निज्जरा होइ ।। ← (उ.मा.५१४,५१५,५२६) इत्युक्तम् । अधिकञ्चाग्रे (पृ. १८५-१९०) स्पष्टीभविष्यति ।।१/१९।। अथ सुपात्रदानमाह 'भक्ति' रिति । भक्तिः तुः अनुकम्पापेक्षया विशेषद्योतनार्थं, सुपात्रतः अर्हत्साध्वादिलक्षणं सुपात्रमवलम्ब्य वन्दनादिना न्यायागत-कल्प्य वस्त्रपात्रान्नपानौषधादिदानेन च स्वस्य = दातुः भवनिस्तारवाञ्छा त्त्विकात्मानुग्रहेच्छा । एतेन आरंभनियत्ताणं अकिणंताणं अकारवेंताणं । धम्मट्ठा दायव्वं गिहीहि कणा ।। ← (नि.भा. ५०६५) इति निशीथभाष्योक्तिरपि व्याख्याता । यथोक्तं समरादित्यकथायां
= ता
-
=
१. हस्तप्रतौ 'क्षमा' इत्यशुद्धः पाठः ।
Jain Education International
=
=
=
મિથ્યાત્વનું કાર્ય છે. - (જો શ્રી હરિભદ્રસૂરિજી કદાગ્રહી હોત અને પોતાના અસંયતદાનના સમર્થન માટે કાલ્પનિક વાતો ઉપજાવી કાઢી હોત તો અષ્ટકપ્રકરણની ટીકા કરનાર શ્રી જિનેશ્વરસૂરિજી મહારાજે તેઓનો સંવિગ્નપાક્ષિક તરીકે ઉલ્લેખ કરી, તેઓની પ્રરૂપણાનું સમર્થન કર્યું ન હોત. માટે કારણિક અનુકંપાદાનને નિર્દોષ કહેવું તે આગમિક જ છે.) (૧/૧૯)
* ભક્તિના સ્વરૂપને સમજીએ
द्वात्रिंशिका - १/२०
०
ગાથાર્થ :- સુપાત્રથી પોતે સંસાર તરી જવાની ઝંખના કરવી એ ભક્તિ છે. આવી ભક્તિથી સુપાત્રને આપેલું દાન ઘણા કર્મના નાશ માટે સમર્થ છે. (૧/૨૦)
ટીકાર્ય (૧) સુપાત્રના આલંબનથી પોતાનો સંસારનિસ્તાર થાય તેવી ઝંખના તે ભક્તિ છે. (૨) (સામાન્યથી સાધક પોતાનામાં આરાધનાનો પરિણામ ઉત્પન્ન થયા પછી ‘મારી આરાધનાનું આલંબન
For Private & Personal Use Only
www.jainelibrary.org