________________
• अनुकम्पापदार्थविमर्शः .
११ 'एतन्नये च सुपात्रदानमपि गृहीतृदुःखोद्धारोपायत्वेनेष्यमाणमनुकम्पादानमेव, साक्षात्स्वेष्टोपा= अनिषिद्धा सम्यक्त्वातिचारानापादिका = प्रामाणिकी। ततश्च ग्लानत्वादिदशायां स्वेष्टदुःखोच्छेदप्रतियोगिदुःखाश्रयत्वस्वरूपानुकम्प्यत्वप्रकारकाचार्यादिविशेष्यकज्ञानप्रयुक्तं साध्वादिकर्तृकमाचार्यादिसम्प्रदानकं पथ्याहारभेषजादिकर्मकं दानमतिचारानापादकमित्यभिप्रायोऽपरेषाम् । ___ एतन्नये च = निरुक्तापरमते हि सुपात्रदानमपि = सुपात्रसम्प्रदानं दानं, अपिना दीन-हीनादिसम्प्रदानकं दानं, गृहीतृदुःखोद्धारोपायत्वेन = प्राधान्येन ग्राहकगतदुःखप्रतियोगिकविच्छेदसाधनत्वेन रूपेण इष्यमाणं गौणरूपेण तु स्वाभिप्रेतपुण्यबन्धाभ्युदय-बोधिप्रमुखधर्मसामग्रीप्रभृतिप्रापकत्वेनेष्यमाणत्वेऽपि अनुकम्पादानमेव, साक्षात् प्राधान्येन स्वेष्टोपायत्वेन = स्वाभिमतकर्मनिर्जरा-बोधिलाभाद्यौपयिकत्वेन इष्यमाणं च अन्यथा = अनुकम्पादानातिरिक्तसुपात्रदानमेव इति बोध्यम् । मुन्यादिभ्यो मुन्यादिदुःखोद्धारेच्छया दीयमानमनुकम्पादानं, स्वभवनिस्तारवाञ्छया दीयमानं तु सुपात्रदानमिति अपरमताशयः। ग्रन्थकारमते तु मिथ्यादृशो दुःखाश्रयत्वेऽनुकम्प्यत्वमेव । दुःखाश्रयत्वे तदनाश्रयत्वे वा सुसाध्वादेः सुपात्रत्वमेव, न त्वनुकम्प्यत्वम् । अतः सुसाध्वादौ निर्विशेषणानुकम्प्यत्वबुद्ध्या गृहीतृदुःखोद्धारोपायत्वेनेष्यमाणं दानं सुपात्रदानमेव निर्दोषञ्च । साक्षात्स्वभवनिस्तारोपायत्वेनेष्यमाणं तु तद्विशेषलाभदायि । दातॄणां मिथ्यादृष्टित्वे तु हीनत्वधिया गृहीतृदुःखोद्धारोपायत्वेनेष्यमाणं साध्वादिसम्प्रदानकं सुपात्रदानमपि तन्मिथ्यात्वदाढाय भवतीति प्रतिभाति ।
यदपि 'आयरिय अणुकंपाए...' इत्यादिना साधुष्वनुकम्पादानमष्टकवृत्तिकारेण विहितं तदपि आचार्यादीनां ग्लानत्वाद्यवस्थायां भेषजादिप्रदानेनाऽन्यदा च तदनुकूलप्रवृत्त्यादिनाऽवगन्तव्यम् । एतेन → अनुकंपओ तस्स महामुणिस्स 6 (उत्त.१२/८) इति उत्तराध्ययने हरिकेशीयाध्ययनवचनमपि व्याख्यातम्, तदुक्तं श्रीशान्तिसूरिभिरपि बृहट्टीकायां तद्व्याख्याने → अनुशब्दोऽनुरूपार्थे, ततश्चानुरूपं कम्पते = चेष्टत इति अनुकम्पकः अनुरूपक्रियाप्रवृत्तिः + (उत्त.बृ.वृ.१२/८) । लक्ष्मीवल्लभगणिनाऽपि → अनुरूपं कम्पते = चेष्टत इत्यनुकम्पकः, साधोः सेवकः इत्यर्थः - (उत्त. १२/८ दी.) इति दीपिकावृत्तौ न थाय तो मनु५॥ अव्याहत = मानिषिद्ध = भतियाना ॥६४ = प्रामा1ि5 छ."
.....तो सुपात्रहान ५। गनुपान जगे. एत. ७५रोत विद्वानोना मते सुपात्रहान ५९ (५९] उवाथी मिथ्यादृष्टि सेवा हीन, अनाथ આદિને અપાતું દાન) દાનને ગ્રહણ કરનાર વ્યક્તિના દુઃખના ઉદ્ધારના ઉપાય તરીકે અભિપ્રેત હોય તો તે અનુકંપાદાન જ છે. અને સાક્ષાત્ પોતાને ઈષ્ટ એવા બોધિલાભાદિના ઉપાય તરીકે ઈચ્છાય तो ते सुपात्रहान छ - मेम. dj. (१/२)
વિશેષાર્થ :- ઉપરોક્ત વિદ્વાનોનો મત એ છે કે – અનુકંપામાં સામી વ્યક્તિનું દુઃખ દૂર કરવું એ સાક્ષાત પોતાને ઈષ્ટ છે. અને એના દ્વારા પોતાને પરંપરાએ સાંસારિક સુખ અથવા સમ્યત્વાદિ ગુણોની પ્રાપ્તિ ઈષ્ટ છે. જ્યારે સાક્ષાત્ પોતાને ઇષ્ટ એવા સમ્યકત્વ-ચારિત્રાદિના ઉપાય તરીકે ઈચ્છાતું १. हस्तादर्श ‘एतन्नये' नास्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org