________________
॥ फल-श्रुति॥
इति ते कथितं विप्र! सर्व-मन्त्रोघ-विग्रहम्। इयं विश्व-जयं नाम, कवचं ब्रह्म-रूपिणम् । पुरा श्रुतं धर्म-वक्त्रात्, पर्वते गन्ध-मादने। तव स्नेहात् मयाऽऽख्यातं, प्रवक्तव्यं न कस्यचित् । गुरूमभ्यर्च्य विधि-वद्, वस्त्रालङ्कार-चन्दनै । प्रणम्य दण्ड-वभूमी, कवचं धारयेत् सुधीः । पञ्च-लक्ष्य-जपेनैव, सिद्ध तु कवचं भवेत्। यदि स्यात् सिद्ध-कवचो, बृहस्पति-समो भवेत्। शक्नोति सर्वं जेतुं सः, कवचस्य प्रसादतः । इति ते काण्व-शाखोक्तं, कथित कवचं मुने! ।।
स्वायम्भुवो मनुश्चैव, यद्धृत्वा सर्वपूजितः कणादो गौतमः कण्वः, पाणिनिः शाकटायनः । ग्रन्थं चकार यद्धृत्वा, दक्ष: कात्यायनः स्वयं । धृत्वा वेद-विभागं च, पुराणान्यखिलानी च। चकार लीला-मात्रेण कृष्ण-द्वैपायन: स्वयम् । शातातपश्च सम्वा , वसिष्ठश्च पराशरः । यद्धृत्वा पठनाद् ग्रन्थं, याज्ञवल्क्यश्चकार सः । ऋष्य-श्रृङ्गो भरद्वाजचाऽऽस्तीको देवलस्तथा। जैगीषव्योऽथ जाबालि र्यद्धृत्वा सर्वपूजितः । कवचस्याऽस्य विप्रेन्द्र ! ऋषिरेव प्रजा-पतिः । स्वयं बृहस्पतिश्छन्दो, देवो रासेश्वरः प्रभुः । सर्व-तत्त्व-परिज्ञात-सर्वार्थ-साधनेषु च। कवितासु च सर्वासु, विनियोग: प्रकीर्तितः ।
॥मूल पाठ॥ ॐ ऐं सरस्वत्यै स्वाहा, शिरो मे पातु सर्वतः, ॐ ऐं वाग्देवतायै स्वाहा, भालं मे सर्वदाऽवतु। ॐ ऐं सरस्वत्यै स्वाहा, श्रोत्रं पातु निरन्तरम्, ॐ ह्रीं भारत्यै स्वाहेति, नेत्रयुग्मं सदाऽवतु। ऐं ह्रीं वाग्वादिन्यै स्वाहा, नासा मे सर्वतोऽवतु, ह्रीं विद्याऽधिष्ठातृदेव्यै, स्वाहा ओष्ठं सदाऽवतु। ॐ श्रीं ह्रीं ब्राम्यै स्वाहेति, दन्त-पङ्क्तीं सदाऽवतु। ऐमित्येकाक्षरी मन्त्रो, मम कण्ठं सदाऽवतु। ॐ श्रीं ह्रीं पातु मे ग्रीवा, स्कन्धं मे श्रीं सदाऽवतु, श्री विद्याऽधिष्ठातृदेव्यै, स्वाहा वक्षः सदाऽवतु। ॐ विद्या-स्वरूपायै च, स्वाहा मे पातु नाभिकाम्, ॐ ह्रीं ह्रीं वाण्यै स्वाहेति, मम पृष्ठं सदाऽवतु : ॐ सर्व-वर्णात्मिकायै, पद्म-युग्मं सदाऽवतु, ॐ रोगाधिष्ठातृदेव्यै, सर्वाङ्ग मे सदाऽवतु। ॐ सर्व-कण्ठ-वासिन्यै, स्वाहा प्राच्यां सदाऽवतु । ॐ ह्रीं जिह्याग्रवासिन्यै, स्वाहाऽग्नि दिशि रक्षतु। ॐ ऐं ह्रीं श्रीं क्लीं सरस्वत्यै बुध-जनन्यै स्वाहा, सततं मन्त्र-राजोऽयं, दक्षिणे मां सदाऽवतु । कवि-जिह्वाग्र-वासिन्यै, स्वाहा मां वारुणेऽवतु, ॐ सदाऽम्बिकायै स्वाहा, वायव्ये मां सदाऽवतु। ॐ गद्य-पद्य-वासिन्यै, स्वाहा मामुत्तरेऽवतु, ॐ सर्व-शास्त्र-वासिन्यै, स्वाहेशान्यां सदाऽवतु। ॐ ह्रीं सर्व-पूजितायै, स्वाहा चोर्ध्वं सदाऽवतु, ऐं ह्रीं पुस्तक-वासिन्यै, स्वाहाऽधो मां सदाऽवतु । ग्रन्थ-बीज-स्वरूपायै, स्वाहा मां सर्वतोऽवतु।।
॥श्री ब्रह्म-वैवर्त-महा-पुराणे नारायण-नारद-सम्वादे सरस्वती विश्व-जयं कवचं॥
હું સિદ્ધ સારસ્વત નામના ઉત્તમ સ્તોત્રને કહું છું - उमा च भारती भद्रा, वाणी च विजया जया। वाणी सर्व-गता गौरी, कामाक्षी कमल-प्रिया ।। सरस्वती च कमला, मातङ्गी चेतना शिवा। क्षेमङ्करी शिवानन्दी, कुण्डली वैष्णवी तथा।। ऐन्ट्री मधु-मती लक्ष्मीर्गिरिजा शाम्भवाम्बिका। तारा पद्मावती हंसा, पद्म-वासा मनोन्मनी ।। अपर्णा ललिता देवी, कौमारी कबरी तथा। शाम्भवी सुमुखी नेत्री, त्रिनेत्री विश्व-रूपिणी। आर्या मृडानी ह्रींकारी साधनी सुमनश्च हि। सूक्ष्मा पराऽपरा कार्त-स्वर-पती हरि-प्रिया।। ज्वाला मालिनिका चर्चा, कन्या च कमलासना। महा-लक्ष्मी महा-सिद्धिः स्वधा स्वाहा सुधामयी। त्रिलोक-पाविनी भी, त्रिसन्ध्या त्रिपुरा त्रयी। त्रिशक्तिस्त्रिपुरा दुर्गा, ब्राह्मी त्रैलोक्य मोहिनी ।। त्रिपुष्करा त्रिवर्गदा, त्रिवर्णा त्रिस्वधा-मयी। त्रिगुणा निर्गुणा नित्या, निर्विकारा निरञ्जना ।। कामाक्षी कामिनी कान्ता, कामदा कलहंसगा। सहजा कालजा प्रज्ञा, रमा मङ्गल-सुन्दरी॥ वाग्-विलासा विशालाक्षी, सर्व विद्या सुमङ्गला। काली महेश्वरी चैव, भैरवी भुवनेश्वरी॥ वाग्-बीजा च ब्रह्मात्मजा, शारदा कृष्ण-पूजिता। जगन्माता पार्वती च, वाराही ब्रह्म रूपिणी। कामाख्या ब्रह्मचारिणी, वामदेवी वरदाम्बिका।।
२१०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org