________________
१८६
चतुर्थस्तुतिनिर्णय भाग-१ पत्वात् रोहिण्यादिदेवतोद्देशेन यत्तद्रोहिण्यादि मुणेयव्वोत्ति ज्ञातव्यं । पुल्लिंगता च सर्वत्र प्राकृतत्वादिति गाथार्थः ॥ देवता एव दर्शयन्नाह । रोहिणिअंबा तह मद, उणिया सव्वसंपया सोक्खा ॥ सुयसंति सुराकाली, सिद्धाइया तहा चेव ॥२४॥ व्याख्या । रोहिणी १ अंबा २ तथा मदपुण्यिका ३ सव्वसंपया सोक्खत्ति ४ सर्वसंपत् ५ सर्वसौख्या चेत्यर्थः ॥ सुय संतिसुरत्ति ६ श्रुतदेवता ७ शांतिदेवता चेत्यर्थः ॥ सुय देवय संतिसुरा इति च पाठान्तरं व्यक्तं । ८ च काली ९ सिद्धायिका इत्येता नव देवतास्तथा चैवेति समुच्चयार्थे संवाइया चैवत्ति पाठान्तरमिति गाथार्थः ॥ ततः किमित्याह । एमाइ देवयाओ, पडुच्च अवउस्सग्गाओ जीवत्ती ॥णाणादेसए सिद्धा, ते सव्वे चेव होइ तवो ॥२५॥ व्याख्या । एवमादिदेवताः प्रतीत्यैनदाराधनायेत्यर्थः ॥ अवउस्सग्गति अपवसनानि अवजोषणानि वा । तुः पूरणे । ये चित्रा नानादेशप्रसिद्धास्ते सर्वे चैव भवंति तप इति स्फुटमिति तत्र रोहिणीतपो रोहिणीनक्षत्र दिनोपवासः सप्तमासाधिकसप्तवर्षाणि यावत्तत्र च वासुपूज्यजिनप्रतिमाप्रतिष्ठा पूजा च विधेयेति । तथांबातपः पंचसु पंचमीष्वेकाशनादि विधेयं नेमिना थांबिकापूजा चेति ॥ तथा श्रुतदेवतातप एकादश स्वेकादशीषूपवासो मौनव्रतं श्रुतदेवतापूजा चेति । शेषाणि तु रूढितोऽवसेयानीति गाथार्थः ॥ अथ कथं देवतोद्देशेन विधीयमानं यथोक्तं तपः स्यादित्याशंक्याह ॥ जत्थ कसायणिरोहो, बंभंजिणपूयणं अणसणं च ॥ सो सव्वो चेव तवो, विसेसओ सुद्धलोयंमि ॥२६॥ व्याख्या ॥ यत्र तपसि कषायनिरोधो ब्रह्म जिनपूजनमिति व्यक्तं अनशनं च भोजनत्यागः सोत्ति तत्सर्वं भवति तपोविशेषतो मुग्धलोके । मुग्धलोको हि तथा प्रथमतया प्रवृत्तः सन्नभ्यासात्कर्मक्षयोद्देशेनापि प्रवर्तते न पुनरादित एव तदर्थं प्रवर्तितुंशक्नोति मुग्धत्वादेवेति । सद्बुद्धयस्तु मोक्षार्थमेव विहितमिति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org