________________
पञ्चजिनस्तुतयः
शस्तेश इति । शस्तानाम्-उत्तमानां सज्जनानामिति यावत्, ईश:-स्वामी । तेजसा इद्धादीप्ता आहरिता-नील-श्याम-कृष्णानामेकत्वेन कृष्णा हरेः-कृष्णस्य तनुरिव तनुर्यस्य सः। यदा आहरिता-आकृष्णा तथा हरिः-पिङ्गा तेजःप्रसरस्य विचित्रतया तनुर्यस्य सः । शङ्ख:-प्रसिद्धः, स एव लक्ष्म-चिह्नं यस्य सः।खलेभ्यः-दुजेनेभ्यःक्ष्माया:-क्षान्तेदाता । दातानि-लूनानि अघानिपापानि येन सः, तदामन्त्रणे । लोकेषु उत्तरः-श्रेष्ठः, जनश्रेष्ठ इत्यर्थः, तदामन्त्रणे । वितर-देहि । विभुः-स्वामी, तदामन्त्रणे । ज्ञानस्य बन्धेन-सम्बन्धेन ऊनाना-हीनानां बन्धुः-ज्ञानप्रदायकत्वेन भ्राता, तदामन्त्रणे । सातं -सौख्ययुक्तम् । सुखवाचित्वेनाऽन्यत्र प्रसिद्धस्यापि सातशब्दस्यात्र मत्वर्थीयाऽविधानेन तद्वत्वे वृत्तिः । सह आतड्रेन-आकस्मिकरोगादिभयेन वर्तमानानां पुंसामनुष्याणाम् । न विद्यते उपमा यस्य सः, तदामन्त्रणे । नुः विकल्पार्थोऽव्ययः । पद-स्थानम् । चारु-सुन्दरं धाम-तेजो यस्य तत् , पदस्य विशेषणमेतत् , मनोहरतेजोमयं स्थानमित्यर्थः यद्वा चारु:-बृहस्पतिः तस्य धाम-प्रभावः तद्वत् उरु-महत् धामं-प्रभावो यस्य सः । अकारान्तोऽपि दृश्यते धामशब्दः । न विद्यते माया:-लक्ष्म्याः रामायाः-स्त्रियाश्च राग:-अभिष्वङ्गो यस्य सः, तदामन्त्रणे । नेमिः-द्वाविंशस्तीर्थकरः, तदामन्त्रणे । समरस्य-युद्धस्य समं-सर्व यद् रजो-धूलिः तस्य पाने अर्थात् प्रशमने वायुः-पवनः। तीर्थकराः हि भगवन्तो यत्र विहरन्ति न तत्र स्वचक्रपरचक्रादिभयं प्रवर्तते पूर्वप्रवृत्तमपि चोपशाम्यति इति युक्तमुक्तं समरसमरजःपानवायुः । नवम् आयुर्यस्य सः, दीर्घजीवी इत्यर्थः ॥ ३ ॥ 'पार्श्वः, 'पार्श्वश्रितो वो हितमाहतमभाग् रातु पातात् तु पाताऽ
वामो 'वामो'रुकुक्षौ सरसि स रसिको हंसकल्पः सकल्पः। लेखा लेखाधिपानामसितमसितताभं सदायं सदा यं
रन्तारं तारमुक्तावरतवरतनुं सन्नताऽऽसन्नतासम् ॥ ४ ॥ पार्श्व इति । पार्श्वः-पार्श्वनाथनाया त्रयोविंशतितमस्तीर्थकरः । पार्श्वेन-एतदाख्ययक्षेण श्रित:-आश्रितः संनिहित इति यावत् । वः-युष्मभ्यम् । हित-समीहितम् । अतिशयितम् अहिंनागराजं सर्परूपिणं धरणेन्द्रमिति यावद् भजते इति तथोक्तः । साहचर्यमत्र भजेरर्थः । नागराजो हि धरणेन्द्रनामा मेघमालिदैत्यकृतोपसर्गावसरे भगवन्तं पार्श्वनाथं फणाटोपेन समावृत्य संनिहितवानिति सुमसिद्धोऽयमर्थः । रातु-ददातु । पातात-दुर्गतिविनिपातात् । तुः भेदे अवधारणे वा । पाता-रक्षिता । अवामः-अवक्र:, सरल इत्यर्थः।वामायाः उरुकुक्षौ सरसि-महति उदररूपे सरोवरे इत्यर्थः । वामा इति पार्श्वनाथमातु म । सः-जगतीप्रसिद्धः । रसिकः-रसचतुरः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org