________________
ग-परिशिष्टम् ।
मुनिराजश्रीकल्याणविजयविरचितया 'पदभन्ननाख्यविवृत्या सहिताः ॥ पूर्वाचार्यप्रणीताः पञ्चजिनस्तुतयः॥
( नग्धराच्छन्दसि निबद्धाः)
ख्याताख्याऽतामस ! त्वामहतमहततिं सन्नुवामो नु वामो
पायाऽपायापहारे वृषभ! वृषभराड्लाञ्छिताऽरं छितारम् । सारं सारङ्गदृष्टे ! ऽपदरपदरतं कम्प्रकामं प्रकामं हेतुं हेतुप्रदानेऽसुरतसुरतरो ! भूतले भूतलेष(ख)म् ॥ १ ॥
पूर्वाचार्यप्रणीतानां स्तुतीनां सुगमार्थकम् ।
कल्याणविजयेनेदं क्रियते पदभञ्जनम् ॥ १॥ एता हि पञ्चजिनस्तुतयः केनापि यमकप्रियेण विदुषां वरेण पं. शीलशेखरेण यमकप्रचुरा दृब्धा इति न सामान्यबुद्धीनां तदर्थज्ञानम, अर्थज्ञानमन्तरेण च न तत्पाठेऽपि भावोल्लास इति अबुधबोधनाय तासां पदभञ्जनमिदमारभ्यते
___ख्याताख्येति । ख्याता प्रसिद्धा आख्या-अभिधानं यस्य सः तदामन्त्रणे । तम एव तामसं, न विद्यते तामसमर्थाद् अज्ञानं यस्य सः, निवृत्ताऽज्ञानरूपतमोभाव इत्यर्थः, तदामन्त्रणे । त्वां-भवन्तम् । अहता-अखण्डिता महानाम्-उत्सवानां ततिः-विस्तरो येन सः, अखण्डोत्सवविस्तारक इत्यर्थः, तम् । सन्नुवामः- सम्यक् स्तुमः । नुः प्रश्नार्थको विकल्पार्थको वा निपातः । वामा:-प्रतीपाः उपाया:-प्रतीकाराः येषाम् एतादृशा ये अपायाः-विघ्नाः तेपाम् अपहारेउद्धृत्य दरीकरणे वृषभो धौरेयः, तदामन्त्रणे । वृषभाणां-बलीवर्दानां राट्-राजा तेन लाञ्छितःचिह्नितः, श्रीआदिनाथ इत्यर्थः, तदामन्त्रणे । अरं-शीघ्रम् । छित-छिन्नं नाशितमिति यादत आरम्-अरीणां समूहो येन सः अर्थाद् नष्टभावशात्रवः, तम् । सार:-श्रेष्ठः, तम् । सारहोमृगः, नस्य दृष्टी इव दृष्टी-नेत्रे यस्य सः, तदामन्त्रणे । अपगतं दरं-भयं यस्माद् एतादृशं यत् पदं-स्थानं तत्र रतः, तम् । कम्मः-कम्पनशीलः कामो येन सः, तम् । प्रकाम-भृशम् । हेतुं-कारणम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org