________________
चतुर्विशतिका. ४ श्रीअभिनन्दनजिनस्तुतयः
अथ श्रीअभिनन्दननाथस्य स्तुतिः
अभयीकृतभीतिमजनः __सुरपकृतातुलभूतिमजनः। यो भव्यमनोऽभिनन्दनः शिवदः सोऽस्तु जिनोऽभिनन्दनः ॥ १॥
-वैतालीयम तीर्थपतीनां नुतिः
रक्षन्त्यचरं त्रसं च ये
कृतचरणाः शतपत्रसञ्चये। अपवर्गोपायशोधनाः
ते वः पान्तु जिना यशोधनाः ॥ २॥-वैता. जिनवाणीविलासः
व्याप्ताखिलविष्टपत्रया
पदचम्वा नयपुष्टपत्रया। या मुनिभिरभाजि नो दिता - सा वागस्तु मुदे जिनोदिता ॥ ३ ॥-वैता० प्रज्ञप्तिदेव्याः स्तुतिः
तन्वाऽब्जमहादलाभया
सह शक्त्याऽतुलमोदलाभया । मम भवतु महाशिखण्डिका
'प्रज्ञप्ती' रिपुराशिखण्डिका ॥ ४ ॥ ४ ॥-वैता०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org