________________
૨૩૮
समास विग्रहः। ९३-प्रगुणाश्च गुरवश्च प्रगुण० 'कर्मधारयः', प्रगुणगुरवश्व ते गुणाश्च प्रगुण० 'कर्मधारयः', प्रगुणगुरुगुणानां व्रातः प्रगुण. 'तत्पुरुषः', अपवर्ग प्रति प्रगुणगुरुगुणजातो यस्य सः अप० 'बहुव्रीहिः', तं अप० । उद्भूता मुद् यस्य स उद्भूत 'बहुव्रीहिः'। अंहसो रंहः अंहो० 'तत्पुरुषः', अंहोरहसि भवाः अंहो. 'तत्पुरुषः', तेषां अंहो । धनं च तद् भयं च घन० 'कर्मधारयः', घनभयस्य आभोगः घन० 'तत्पुरुषः', घनभयाभोगं ददतीति घन० 'उपपद'समासः, तेषां घन० । अनन्ता आज्ञा यस्य सः अनन्त० 'बहुव्रीहिः', तं अनन्ता० । न विद्यते अघो यस्य सः अनघः 'बहुव्रीहिः', तं अन० । तता चासौ मलिना च तत० 'कर्मधारयः, ततमलिना चासौ ज्ञानिता च तत० 'कर्मधारयः', ततमलिनज्ञानिताया अन्तः तत० 'तत्पुरुषः', कृतः ततमलिनज्ञानितान्तो यस्मिन् तद् यथा स्यात् तथा कृत० 'अव्ययीभावः ॥
९४-न मेयः अमेयः 'नञ्तत्पुरुषः', तस्मिन् अमेये । मेरोः मूर्धा मेरु० 'तत्पुरुपः', तस्मिन् मेरु० । न विद्यते तुला येषां तानि अतुलानि 'बहुव्रीहिः', अतुलानि च फलानि च अतुल० 'कर्मधारयः', अतुलफलानां विधा अतुल० 'तत्पुरुषः', सन्तश्च ते तरवश्च सत्तरवः 'कर्मधारयः', सत्तरूणां उपात्तं रूपं यैस्ते सत्तरू० 'बहुव्रीहिः', अतुलफलविधायां सत्तरूपात्तरूपाः अतुल० 'बहुव्रीहिः' । स्नुत्या सहिताः सस्नु० 'बहुव्रीहिः', न जीर्यन्त्यः अजी० 'नञ्तत्पुरुषः', सस्नुत्यश्च अजीर्यन्त्यश्च सस्नु० 'कर्मधारयः', सस्तुत्यजीयन्त्यो दृषदो यस्मिन् स सस्नु० 'बहुव्रीहिः', तस्मिन् । सुराणां जलानि सुर० 'तत्पुरुषः', तै० सुर० । प्रास्ता मोहा यैस्ते प्रास्त. 'बहुव्रीहिः । तमो घ्नन्तीति तमो० 'उपपद'समासः। जातं ओजः येषु ते जातो. 'बहुव्रीहिः' । धुतेः चितिः द्युति. 'तत्पुरुषः', सत् च तत् कुन्दं च सत्कुन्दं 'कर्मधारयः', द्युतिचित्या जितं सत्कुन्दं यैः ते द्युति. 'बहुव्रीहिः', द्युतिचितिजितसत्कुन्दा दन्ता येषां ते द्युति० 'बहुव्रीहिः' । अध्यामं च तद् ध्यानं च अध्याम० 'कर्मधारयः', अध्यामध्यानेन गम्या अध्याम० 'बहुव्रीहिः' । पापं ददतीति पाप० 'उपपद'समासः, तेषां पाप० ॥ ____९५-उरुश्चासौ सिन्धुश्च उरु० 'कर्मधारयः', दोषा एव उरुसिन्धुः दोषो० 'कर्मधारयः', दोषोरुसिन्धोः प्रतरणं दोषो० 'तत्पुरुषः', दोषोरुसिन्धुप्रतरणस्य विधयः दोषो. 'तत्पुरुषः', तेषु दोषो० । न्यायेन शस्याः न्याय० 'तत्पुरुषः' । प्रादुष्कृताः अर्थाः यैस्ते प्रादु० । कृता नतियेस्ते कृत० 'बहुव्रीहिः', तेषु कृतः । शान्ता ईशा यस्यां सा शान्ते० 'बहुव्रीहिः', तां शान्तेनखानां अंशवः नखां० 'तत्पुरुषः', नखांशुभिः छुरिताः नखां० 'तरपुरुषः' । सुराणां शिरांसि सुर० 'तत्पुरुषः', सुरशिरसां राजयः सुर० 'तत्पुरुषः', नखांशुच्छुरिताः सुरशिरोराजयः यैस्ते नखां० 'वहुव्रीहिः', नाना च जिनाश्च नाना० 'कर्मधारयः', नखांशुच्छुरितसुरशिरोराजयश्च नानाजिनाश्च नखां० 'कर्मधारयः', तेषां नखां०। राद्धेः लक्ष्मीः राद्धि० 'तत्पुरुषः', तस्याः राद्धि । वचनानां विधयः वचन० 'तत्पुरुषः', वचनविधीनां लवाः वचन० 'तत्पुरुषः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org