________________
૨૨૬
समासविग्रहः। भुवनानां भासकाः भुवन० 'तत्पुरुषः', न विद्यते दर्पको येषां ते अदर्पकाः 'बहुव्रीहिः', भुवनभासकाश्च ते अदर्पकाश्च भुवन० 'कर्मधारयः । विलीनो मलो यस्मात् तद् विलीन 'बहुव्रीहिः', विलीनमलं च तत् केवलं च विलीन कर्मधारयः', न तुलः अतुलः 'नतत्पुरुषः', अतुलश्चासौ विकासश्च अतुल० 'कर्मधारयः', विलीनमल केवलस्य अतुलविकासः विलीन० 'तत्पुरुषः', विलीनमलकेवलातुलविकासं विभ्रति ते विलीन० 'उपपद'समासः । शोभनं च तद् वचश्च सुवचः 'कर्मधारयः', तेन सुवचसा । सभां राजितुं शीलं यस्य तत् सभा० 'बहुव्रीहिः', तेन सभा०॥ ____३१-भुवनानां त्रयं भुवन० 'तत्पुरुषः', समस्तं च तद् भुवनत्रयं च समस्त० 'कर्मधारयः', समस्तभुवनत्रयस्य प्रथनं समस्त० 'तत्पुरुषः', समस्तभुवनत्रयप्रथने सज्जानि समस्त० 'तत्पुरुषः', नाना च तानि पदानि च नानापदानि 'कर्मधारयः', समस्तभुवनत्रयप्रथनसजानि नानापदानि यस्मिन् स समस्त० 'बहुव्रीहिः' । सन्तश्च ते जनाश्च सज्जनाः 'कर्मधारयः', तान् सज्जनान् । समुल्लसिता भङ्गा यस्मिन् स समु० 'बहुव्रीहिः', तं समुः। न विद्यते मलो यस्मिन् सः अमलः 'बहुव्रीहिः', तं अमलम् । न गम्यते इति अगमः, तं अगमम् । स्फुरन्तश्च ते नयाश्च स्फुर० 'कर्मधारयः', स्फुरन्नयैः निवारिताः स्फुर० 'तत्पुरुषः', न सन्तः असन्तः 'नञ्तत्पुरुषः', असन्तश्च ते उपलम्भाश्च असदु० 'कर्मधारयः', स्फुरन्नयनिवारिता असदुपालम्भा यस्य स स्फुर० 'बहुव्रीहिः', जैनश्चासौ आगमश्च जैना० 'कर्मधारयः', स्फुरन्नयनिवारितासदुपालम्भश्चासौ जैनागमश्च स्फुर० 'कर्मधारयः', तं स्फुर०॥
३२-गदा च अक्षमाला च गदा० 'इतरेतरद्धन्द्वः', धृते गदाक्षमाले यया सा धृत० 'बहुव्रीहिः' । भयानां शमः भय० 'तत्पुरुषः', भयशमे क्षमा भय० 'तत्पुरुषः । न विद्यते लाघवं यस्याः सा अलाघवा 'बहुव्रीहिः' । धनं च तद् अञ्जनं च घना० 'कर्मधारयः', घनाञ्जनेन समा घना० 'तत्पुरुषः', घनाञ्जनसमा प्रभा यस्याः सा घना० । घातकानां आली घात. 'तत्पुरुषः', घातकाल्याः ईहितं घात. 'तत्पुरुषः', विहतं घातकालीहितं यस्मिन् तद् विहत. 'बहुव्रीहिः', तद् विहतः । न विद्यते तुला यस्य तद् अतुलं 'बहुव्रीहिः', तद् अतुलम् ॥ ____३३-विमलं च तत् कोमलं च विमल० 'कर्मधारयः', विमलकोमलं च तत् कोकनदं च विमल. 'कर्मधारयः', विमलकोमलकोकनदस्य च्छदः विमल. 'तत्पुरुषः', विमलकोमलकोकनदच्छदस्य च्छविः विमल० 'तत्पुरुषः', विमलकोमलकोकनदच्छदच्छविं हरतीति विमल० 'उपपद' समासः, तो विमल० । अमराणां इमे आमराः, तैः आमरैः। सततं नूता सततनूता 'प्रादि'समासः, सततनूता तनुर्ययोः तो सतत० 'बहुव्रीहिः', तौ सतत । अमतस्य हेठनं अमत० 'तत्पुरुषः', अमतहेटने लालसाः अमत. 'तत्पुरुषः', सत्सं० अमत०॥
१ घनश्च अञ्जनं च धनाञ्जने 'इतरेतरद्वन्द्वः' इत्यपि संभवति । २ आलिया।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org