________________
૨૨૪
समासविग्रहः। मासः । न सङ्गता अस० 'नञ्तत्पुरुषः', तां अस० । कामस्य सङ्गता काम० 'तत्पुरुषः', च्युता कामसङ्गता यस्याः सा च्युत० 'बहुव्रीहिः', तां च्युत० ॥
२०-कुशे शेते इति कुशेशयं 'उपपद'समासः, तस्मिन् कुशे० । कनकवत् छवियस्याः सा कनक० 'बहुव्रीहिः', तां कनक० । दुरितानां (अङ्कुश इव) अङ्कुशः दुरि० 'तत्पुरुषः', तस्मिन् दुरि० । अहिता एव अद्रयः अहिता० 'कर्मधारयः', अहितादीन् हन्तीति अहि० 'उपपद'समासः, वज्रस्य शृङ्खला वन० 'तत्पुरुषः', अहिताद्रिनी चासौ वज्रशृङ्खला च अहिता० 'कर्मधारयः', तां अहिता० । वज्रमयी शृङ्खला यस्याः सा वज्र०॥
२१-रुचीनां सम्पद् रुचि० 'तत्पुरुषः', तुल्या रुचिसम्पद् यस्य स तुल्य० 'बहुव्रीहिः', तस्मिन् तुल्य० । पुष्पाणां उत्कराः पुष्पो० 'तत्पुरुषः', तैः पुष्पो० । सुराणां गणः सुर० 'तत्पुरुषः', तेन सुर० । प्रमदो गर्भ यथा स्यात् तथा प्रमद० 'अव्ययीभावः' । न जायते इति अजः 'नञ्तत्पुरुषः', तस्मिन् अजे । यशसि हितो यशस्यः, तस्मिन् यशस्ये । पद्मस्येव प्रभा यस्य स पद्म० 'बहुव्रीहिः', तस्मिन् पद्म। न जेयः अजेयः 'नञ्तत्पुरुषः', अजेयश्चासौ शस्यश्च अजेयशस्यः 'कर्मधारयः', तस्मिन् अजेयः॥
२२-मजनस्य उदकं मज्ज० 'तत्पुरुषः', मजनोदकेन पवित्रितः मज० 'तत्पुरुषः', मन्दरश्चासौ अगश्च मन्द० 'कर्मधारयः', मज्जनोदकपवित्रितः मन्दरागो यैस्ते मज० 'बहुव्रीहिः' । मन्दो रागो येषां ते मन्द० 'बहुव्रीहिः' । धर्मस्य उदयः धर्मो० 'तत्पुरुषः', अब्धौ पतनं अब्धि० 'तत्पुरुषः', धर्मोदयश्च अधिपतनं च धर्मो० 'समाहारद्वन्द्वः', तस्मिन् धर्मो०।वनस्य राजिः वन० 'तत्पुरुषः', वनराजिश्च नावश्च वनराजिनावः 'इतरेतरद्वन्द्वः'। देवैः सहिताः सदेवाः 'वहुव्रीहिः', सदेवाश्च नराश्च सदेव० 'इतरेतरद्वन्द्वः' नन्दिताः सदेवनरा यैस्ते नन्दित. 'बहुव्रीहिः' ॥
२३-शची आदी यासां ताःशच्यादयः 'बहुव्रीहिः', दिव्याश्च ता वनिताश्च दिव्य० 'कर्मधारयः', शच्यादयश्च ता दिव्यवनिताश्च शच्या० 'कर्मधारयः', शच्यादिदिव्यवनितानां ओघः शच्या० 'तत्पुरुषः', शच्यादिदिव्यवनितीघस्य धवाः शच्यादि० 'तत्पुरुषः', शच्यादिदिव्यवनितौषधवैः स्तुतः शच्यादि० 'तत्पुरुषः', तत्सं० शच्यादिः । न व्याहतं अव्या० 'नञ्तत्पुरुषः', अव्याहतं च तद् उदितं च अव्या० 'कर्मधारयः', विधां अनतिक्रम्य यथा० 'अव्ययीभावः', वस्तूनां तत्त्वं वस्तुतत्त्वं 'तत्पुरुषः', यथाविधं च तद् वस्तुतत्त्वं यथाविध० 'कर्मधारयः', अव्याहतोदितं यथाविधवस्तुतत्त्वं येन तद् अव्या० 'बहुव्रीहिः', तत्सं० अव्या० । जिनेषु जिनानां वा इन्द्राः जिनेन्द्राः 'तत्पुरुषः', जिनेन्द्राणां मतं जिने० 'तत्पुरुषः', तत्सं० जिने । न कम्प्राः अकम्प्राः 'नञ्तत्पुरुषः', नित्यं अकम्पा देहिनो यस्मिन् तत् नित्य० 'बहुव्रीहिः', तत् नित्य० । जन्म आदौ यासां ता जन्मा० 'बहुव्रीहिः', अनन्ताश्च ता विपदश्च अनन्त० 'कर्मधारयः', जन्मादयश्च ता अनन्तविपदश्च जन्मा० 'कर्मधारयः', तासां जन्मा०॥
१ टीकायां त्वन्यथा सूचितमस्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org