________________
चतुर्विंशतिका. प्रति दृढरुचि कृत्वा शासनं जैनचन्द्र
परममृतसमानं मानसं पात कान्तम् ॥३॥-मालिनी अम्बादेव्याः स्तुतिः
जिनवचसि कृतास्था संश्रिता कम्रमानं
समुदितसुमनस्कं दिव्यसौदामनीरुक् । दिशतु सतत मम्बा' भूतिपुष्पात्मकं नः
समुदितसुमनस्कं दिव्यसौ दाम नीरुक् ॥४॥२२॥-मालिनी
२३ श्रीपार्श्वजिनस्तुतयः
अथ श्रीपार्श्वनाथाय प्रणामः--
नमामि जिन पार्श्व'! ते शमितविग्रहं विग्रह - महानिघनमेरुके वरद ! शान्त ! कृत्स्नापितम् । शुभैस्त्रिभुवनश्रियाः सुरवरैरनीचैस्तरा
महानिघनमेरुकेऽवरदशान्तकृत् ! स्नापितम् ॥ १॥
-पृथ्वी
जिनपतिभ्यः प्रार्थना
मुखौघजलमण्डपां दुरितधर्मभृद्भ्यो हितां
शुभव्यजनकामिताङ्कुशलसत्पताकारिणः । जिनेन्द्रचरणेन्दवः प्रवितरन्तु लक्ष्मी सदाऽऽ
शु भव्यजनकामितां कुशलसत्पताकारिणः ॥ २ ॥-पृथ्वी जिनमतस्वरूपम्
अशक्यनुतिकं हरेरपि भवादिनिर्दारणे
स्वरूपममलनं मनसि किन्नरैरश्चितम् । नयर्जिनपतेर्मतं जन ! शिवस्पृहश्चेदिति
स्वरूपममलं घनं मनसि किं न रैरै चितम् ? ॥३॥-पृथ्वी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org