________________
RRISMISSIKASHNAKSHIKSHASHIKHISM
INESHISHASHISKASMISks
SEPSITSAHISHASITISM २२ श्रीचतुर्विशतिजिनानन्दस्तुतयः
[२२ श्रीनेमिकालीदेव्याः स्तुतिः
या 'काल्याकिञ्चनजनानतनोदिताऽब्जं
प्रत्यर्थिनो विशदमानगदाऽक्षमाला । सा देवता प्रथयतु प्रथितप्रभावा
प्रत्यर्थिनो विशदमानगदाक्षमाला ॥४॥२१॥
MSCISISCCSCISHCISCISHSSCIE+
२२ श्रीनेमिजिनस्तुतयः । अथ श्रीनेमिनाथाय प्रणामः
यो रैवताख्यगिरिमूर्ध्नि तपांसि भोग
राजीमतीत्य जनमारचयां चकार । 'नेमिः जना ! नमत यो विगतान्तरारी
'राजीमती'त्यजनमारचयाञ्चकार ॥१॥ जिनाधिपानां स्तुतिः
यज्ज्ञानसारमुकुरे प्रतिबिम्बमीयु
र्भावालयो गणनया रहिता निशाते । मेधाविनां स भगवन् ! परमेष्ठिनां श्री
भावालयो गण ! नयारहितानि शाते ॥ २॥ सिद्धान्तस्य शोभा
निर्मापयन्त्यखिलदेहजुषां निषेधं
सारा विभाति समतापर ! मारणस्य । सिद्धान्त ! सिद्धरचितस्य तवोग्रतत्त्व
सारा विभाऽतिसमतापरमारणस्य ॥३॥ आम्बिकादेव्याः स्तुतिः
प्राप्ता प्रकाशमसमद्युतिभिर्निरस्तताराविभावसुमतोदमहारिबन्धा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org