________________
२०
343434 34
धरणप्रियायाः स्तुति:--
श्रीचतुर्विंशतिजिनानन्दस्तुतयः
अथ श्रीमुनिसुव्रतनाथस्य स्तुति:
जिनेश्वराणां स्तुति:
Jain Education International
श्रीजैनशासनहिता निखिलाहिताली - संभिन्नतामरसभा सुरभासमाना । देवी दुनोतु दुरितं ' धरण प्रिया वः संभिन्नतामरसभासुरभी समाना ॥ ४ ॥ १९ ॥
SAGAR
२० श्रीमुनिसुव्रतजिनस्तुतयः ।
जिनागमाय महादेवस्योपमा
सीमन्तिनीमिव पतिः समस्त सिद्धिं निर्माय विस्मितमहामुनि सुव्रतत्वम् । सोऽयं मम प्रतनुतात् तनुतां भवस्य
निर्माय ! विस्मितमहा 'मुनिसुव्रत !' त्वम् ॥ १ ॥
*RUK
१ ' माऽसमाना' इत्यपि पाठः ।
[२० श्रीमुनिसुव्रत
दीक्षां जवेन जगृहुर्जिनपा विमुच्य कान्तारसं गतिपराजितराजहंसाः । ते मे सृजन्तु सुषमां यशसा सुकीर्त्ति - कां तारसङ्गतिपरा जितराजहंसाः ॥ २ ॥
दुर्दान्तवादिकुमत 'त्रिपुराभिघाते
कामारिमानम मतं पृथु लक्षणेन । सर्वज्ञशीतरुचिना रचितं निरस्त - कामारिमानममतं पृथुलक्षणेन ॥ ३ ॥
For Private & Personal Use Only
4346464
www.jainelibrary.org