________________
ग-परिशिष्टम् । श्रीजिनपद्ममुनिवर्यविरचितः ॥ श्रीपार्श्वनाथस्तवः॥ (मुनिराज कल्याणविजय'विरचितयाऽवचूर्या समलङ्कृत्तः)
तमालनीलच्छविपिच्छलाङ्गः, सिद्धान्तमुद्रासहितो मनोज्ञः । जीयाजिनेन्द्रप्रभुपार्श्वनाथः', सिद्धान्तमुद्रासहितो मनोज्ञः ॥ १॥
-उपजातिः
अवचूरिः तमालेति । तमालस्तापिच्छापरपर्यायो वृक्षविशेषः तद्वन्नीलया-हरितया छव्या-धुत्या पिच्छलसस्नेहमङ्ग-देहो यस्य सः। “पिच्छलो विजिलेऽन्यवद्” इति मेदिनिः (श्लो० ११५ )। तथा सिद्धान्तप्रतिपादिता मुद्रा सिद्धान्तमुद्रा, मैत्रीप्रमोदादिसूचिका आगमोक्ता जिनमुद्रा इति यावत , स्था सहितः; अथवा सिद्धानां-योगसिद्धिभाजां महायोगिनाम् अन्तमुद्रया-समाध्यवस्थानलक्षणया अन्तिमावस्थया सहितः-अविनाकृत् । मनांसि-अन्तःकरणानि जानाति इति मनोज्ञः-प्राणिगणमनोभावविहायकः । जीयात-सर्वोत्कर्षेण वर्तिषीष्ट । जिनानां सामान्यकेवलिनामिन्द्रो जिनेन्द्रः, प्रभुः-सामर्थ्यवान्, जिनेन्द्रश्चासौ प्रभुश्चेति विशेषणसमासः, पार्श्वनाथः-एतदभिधानत्रयोविंशस्तीर्थकरः । जिनेन्द्रप्रभुश्चासौ पार्श्वनाथश्चेति कर्मधारयः । सिद्धान्तस्य-जिनागमस्य मुद्रां-पिधानम् अस्यन्ति-क्षिपन्ति ते सिद्धान्तमुद्रासाः-आगमरहस्योद्घाटकाः सूरयः, तेषां हितो-हितावहः । अथवा सिद्धान्तमुदायाम्आमममर्यादायामासते-उपविशन्ति ते सिद्धान्तमुद्रासाः, यद्वा सिद्धान्तमुद्राम असम्ते-आददत, वा सिद्धान्तमुद्रया असन्ति-दीप्यन्ते ते सिद्धान्तमुद्रासाः, यद्वा सिद्धान्ते मुत-प्रीतिर्येषां ते, राया:लक्ष्म्याः आस:-क्षेपो येषां ते द्वन्द्वे कृते सिद्धान्तमुद्रासा-मुनयः तेषां हितः सिद्धान्तमुद्रासहितः। मनोज्ञः-अभिरामः॥१॥
अन्वयः तमाल-नील-छवि-पिच्छल-अङ्गः सिद्धान्त [ सिद्ध-अन्त]-मुद्रा-सहितः मनस्-ज्ञः सिद्धा. न्त-मुद्रा-अस [आस-हितः मनोज्ञः जिन-इन्द्र-प्रभु-पार्श्वनाथः जीयात् ।
શબ્દાથે तमाल-तमास, मेसतर्नु आ3.
अङ्ग हेड, श२. नील-श्याम.
तमालनीलच्छाविपिच्छलाङ्गः तमासनावी छविधुति, प्रा.
નીલ કાંતિથી પિછલ છે દેહ જેને એવા. पिच्छल स्नेहाण.
'सिद्धान्त सिद्धान्त, माराम.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org