________________
१७३
श्रीमानतुङ्गसूरिकृतम् रङ्गत्तरगशिखरस्थितयानपात्रा
स्त्रासं विहाय भवतः स्मरणाद् व्रजन्ति ॥ ४०॥ रोगभयं निन्दयन्नाहउद्भूतभीषणजलोदरभारभुग्नाः
शोच्यां दशामुपगताच्युतजीविताशाः। त्वत्पादपङ्कजरजोऽमृतदिग्धदेहा
मा भवन्ति मकरध्वजतुल्यरूपाः ॥ ४१ ॥ निगडबन्धभयं तिरस्कुर्वन्नाह
आपादकण्ठमुरुशृङ्खलवेष्टिताङ्गा ___ गाढं बृहन्निगडकोटिनिघृष्टजङ्घाः । त्वन्नाममन्त्रमनिशं मनुजाः स्मरन्तः
___ सद्यः स्वयं विगतबन्धभया भवन्ति ॥ ४२ ॥ पूर्वोक्तान्यष्टभयानि निर्गमयन्नाह
मत्तद्विपेन्द्र-मृगराज-दवानला-ऽहि
सङ्ग्राम-वारिधि-महोदर-बन्धनोत्थम्। तस्याशु नाशमुपयाति भयं भियेव
यस्तावकं स्तवमिमं मतिमानधीते ॥ ४३ ॥ स्तवप्रभावसर्वस्वमाह
स्तोत्रस्रजं तव जिनेन्द्र ! गुणैर्निबद्धां __ भक्त्या मया रुचिरवर्णविचित्रपुष्पाम् । धत्ते जनो य इह कण्ठगतामजस्रं
तं मानतुङ्गमवशा समुपैति लक्ष्मीः ॥ ४४ ॥
wwwwwwwwwwwwwwwwwww । इति श्रीमानतुगाचार्यविरचितं भक्तामरस्तोत्रम् । തരരരരരരരരരരത്
१ भन्नाः', 'मग्नाः' इति च पाठः । २ मानतुङ्गमिति स्वकीयं नामाप्याचार्येण युक्त्या चरमपद्ये निवेशितम् । Jain Education International For Private & Personal Use Only
www.jainelibrary.org