________________
क-- परिशिष्टम् श्रीमानतुङ्गाचार्यविरचितं
|| भक्तामर स्तोत्रम् ॥
काव्यद्वयेन मङ्गलं प्रादुष्कुर्वन्नाह -
भक्तामरप्रणतमौलिमणिप्रभाणा
मुद्द्योतकं दलितपापत मोवितानम् ।
सम्यक् प्रणम्य जिनपादयुगं युगादा
वालम्बनं भवजले पततां जनानाम् ॥ १ ॥ - वसन्ततिलका
यः संस्तुतः सकलवाङ्मयतत्त्वबोधादुहूतबुद्धिपटुभिः सुरलोकनाथैः । स्तोत्रैर्जगत्रितयचित्त हरैरुदारैः
स्तोये किलामपि तं प्रथमं जिनेन्द्रम् ॥ २ ॥ (युग्मम्)
कविरात्मौद्धत्यं परिजिहीर्षुराह
बुद्धा विनाऽपि विबुधार्चितपादपीठ !
स्तोतुं समुद्यतमतिर्विगतत्रपोऽहम् ।
बालं विहाय जलसंस्थितमिन्दुबिम्ब
मन्यः क इच्छति जनः सहसा ग्रहीतुम् ? ॥ ३ ॥
जिनस्तुतावन्येषां दुष्करतां दर्शयन्नाह -
वक्तुं गुणान् गुणसमुद्र ! शशाङ्ककान्तान् कस्ते क्षमः सुरगुरुप्रतिमोऽपि बुद्धया ? |
कल्पान्तकालपवनोद्धतनक्रचकं
को वा तरीतुमलमम्बुनिधिं भुजाभ्याम् ? ॥ ४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org