________________
नेमिभक्तामरम् ] નેમિભકતામર
१४३ ઉદયાચળના શિખરને વિષે (રહેલા ) સૂર્યની આકાશને વિષે ઉદયમાં આવેલી તેમજ અહાર્ય सपी अन्तिनी म ११ निवारी श ?"-२६
सारेच्छुदुर्लभमतोऽफलमेव मन्ये
मुख्य महेश ! महतोऽप्यपरोपकृत् ते । सिद्धागमार्थवरमुच्चदशं स्वरूपमुच्चैरतट सुरगिरेरिव शातकौम्भम् ॥ ३० ॥
टीका हे महेश !-हे महाप्रभो ! अहं ते-तव स्वरूप-ध्यानावस्थागतरूपं अतः-कारणादफलं-निरर्थकमेव मन्ये-जानामि । कथंभूतं स्वरूपं ? मुख्यं -प्रधानमिति । पुनः कथंभूतं स्वरूपं ? सिद्धा-देवास्तेषामागम-आगमनं तस्यार्थो-हेतुस्तेन वरं-श्रेष्ठम् । अथवा सिद्धः -प्रसिद्ध आगमानां-जिनप्रणीतशास्त्राणामों-हेतुस्तेन वरमिति, आगमोत्पत्तिकारणत्वात् । 'आगमस्त्वागतौ शास्त्रे" इति हैमानेकार्थः । पुनः कथंभूतं स्वरूपं ? 'उच्चदर्श' उच्चा-ऊ; गुणस्थानापेक्षया दशाऽवस्था यस्य तदुच्चदशम् । एवं विधमपि विशेषणद्वारेणाफलकारणमाह--पुनः कथंभूतं स्वरूपं ? अपरोपकृत-परेपामनुपकारकं, त्वत्स्वरूपस्यानुभवगम्यत्वात् स्थूलमतीनामकिञ्चित्करम् । अथवा विषमस्थानस्थितस्य दर्शनमपि दुर्लभमतो जनानामनुपकारकमिति । पुनः कथंभूतं स्वरूपं ? 'सारेच्छुदुर्लभं' सारं-श्रेष्ठमिच्छतीति सारेच्छुन्तेन दुर्लभं-दुष्प्रापंमिति । कथंभूतस्य ते ? महतो-महानुभावस्यापि । किमिव तटमिव । यथाऽहं सुरगिरेः-मेरुपर्वतस्य शातकौम्भं-सुवर्णमयं तटं अतोऽफलं मन्ये । कथंभूतं तटं ? मुख्य-प्रधानम् । पुनः कथंभूतं तटं ? 'सिद्धेति' सिद्धाः-प्रसिद्धा आगमा अगाः शब्दप्रभेदत्वाचन्दनादिवृक्षा अथो(श्च)अन्यवस्तृनि तेवरं-श्रेष्ठम् । पुनः कथंभूतं तटं ? उच्चदशम्-उन्नतदशम् । पुनः कथंभूतं तटं ? उच्चैः-उन्नतम् । एवं विधमपि अफलकारणमाह-पुनः कथंभूतं तटं ? अपरोपकृत्-अनुपकारकम् । यतः कथंभूतं तटं ? सारेच्छुदुर्लभ-धनवाञ्छकनरदुष्प्रापे. मिति । कथंभूतस्य सुरगिरेः ? महत-प्रोढस्येति ॥३०॥
अन्वयः (हे ) महत्-ईश ! ( अहं ) ( महतः ) सुर-गिरेः शातकौम्भं, ( मुख्यं), (सिद्ध-आगम-अर्थवरं, उच्च-दशं ) उच्चैः, ( अ-पर-उपकृत्, सार-इच्छु-दुर्लभं ) तटं इव महतः अपि ते मुख्यं, सिद्ध-आगम-अर्थ-वरं, उच्च-दर्श स्वरूपं अ-पर-उपकृत् , सार-इच्छु-दुर्लभं अतः अ-फलं मन्ये ।
શબ્દાર્થ सार-(१) श्रेष्ठ; (२)धन.
सोरच्छुदुर्लभं श्रेष्ठनी ( अथवा धननी ) -७ इच्छु-नार.
રાખનારને દુર્લભ. दुलेभ-हुर्समा
अतस्ये था रीन. १-२ 'पकमिति ' इति ख-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org