________________
पञ्चमः प्रस्तावः ।
गत्वा प्रियालुद्रुतलस्थितां श्री
युगादिदेवस्य पदद्वयीं च ॥ १९ ॥ स्वकारितां तत्र मयूरमूर्ति
विलोक्य लोकाद्भुतकारिणी सः । 5 समुल्लसद्धर्षमना ववर्ष
मुक्ता-मणि-स्वर्ण-विभूषणादि ॥ २० ॥ राजादनोऽप्यादिजिनेशतीर्थे ___ य उद्भूतोऽभूत् स तथास्थ एवम् । दृष्ट्वा परां देसलसाधुभक्ति
दुग्धेन दृ(वृ)ष्टिं सुधयेव चक्रे ॥ २१ ॥ महोत्सवं साधु विधाय साधु
वितीर्य वस्त्रादिकमर्थिनां सः । द्वाविंशति तीर्थपतीन् प्रपूज्य
प्रदक्षिणां सर्वगतां चकार ॥ २२ ॥ 15 अथादिनाथं प्रणिपत्य साधु
महीमिलन्मौलिरसौ जगाम । स्वमाश्रयं पुत्रयुतः प्रतिष्ठा
विधापनायाशु समुचतोऽभूत् ॥ २३ ॥ साधुः प्रतिष्ठाविधिकारणाय 20 तनूद्भवं स्वं स्मरमादिदेश । समेषु सूनुष्वपि कार्ययोग्यं
कस्यापि हि स्यादतिशायि भाग्यम् ॥ २४ ॥ आदेशमासाद्य पितुः स्मरोऽपि
___ संभावना (नां) सान्(तां)मुनिगौरवस्य (१) 25 विवेद वेदेषु यदुच्यतेऽदः
कार्य नियोगो बहुमानहेतुः ॥ २५ ॥
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org