________________
नाभिनन्दनोद्धारप्रबंधः ।
तत्र स्थितः संघपतिः ससंघो निरीक्ष्य चैत्यं विलसत्पताकम् । संसारसिन्धोः परपारयाने
यानं स मेने किल संघमेतत् ॥ १३ ॥ 5 तदेकदृष्टचैव विलोकयन् स क्रमेण सङ्गाधिपदेसलोऽगात् । युगादिनाथस्य जिनस्य सिंह
द्वारं श्रियो द्वारमिवाविशन्त्याः ॥ १४ ॥
अथ स्थितस्तत्र युगादिदेवं संवीक्ष्य हर्षेण धनं ववर्ष | स देसलः स्वर्ण-हिमांशुवासोमुक्तामणिनाणकभूषणादि ॥ १५ ॥ मध्ये प्रवे (वि) श्याथ तमादिनाथं
स्वकारितुं (i) वन्दितुमुक्त (क) चित्तः । 15 भूमौ लुठन् देसलसंघनाथो
10
20
युगादिनाथस्य समीपमागात् ॥ १६ ॥ उत्थाय सर्वाङ्गममुं जिनेशं
साधुः सुधामूर्तिमिवालिलिङ्ग । कः प्राप्य दुष्प्रापमशेषविश्व
संजीवनं माद्यति नो निधानम् ॥ १७ ॥ प्रणम्य भक्त्या जिनमादिनाथं
तं लेप्यमूर्ति परिपूज्य पुष्पैः । प्रदक्षिणां दातुमनाः स कोटाकोटिस्थितानार्चयदर्हतोऽथ ॥ १८ ॥
25 अपूपुजत् पाण्डवपञ्चमूर्तीः कुन्तीं तथा देसल संघनाथः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org