SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ चतुर्थः प्रस्तावः । ससिल्लारैरश्ववारैः परितः परिवेष्टितः ।। पुरोधनुर्द्धरवरश्रेणिछो(छा)दितभूतलः ॥३११॥ समरोऽपि लसन्मौलिमयूरातपवारणः । किल कल्पद्रुमेणेवच्छन्नः साक्षादुपेयुषा ॥ ३१२ ।। अश्वरत्नं समारूढो निजभाग्यमेवोन्नतम् । अग्रतः पृष्ठतो रक्षां संघस्य विदधे स्वयम्॥ त्रिभिर्विशेषकमा संघस्य चलतः शंखनिनादः प्रसरन् दिशः । अपूरयत् तथा विष्णोः पाञ्चजन्यरवो यथा ॥३१४॥ तथा निस्वानः भेरीणां काहलानां रयोऽभवत् । प्रमादनिद्राशयितान् भविनो बोधयन्निव ॥३१५॥ संचचारानसां श्रेणिः सस्पर्द्ध त्वरितैर्वृषैः । सपर्याणगजेन्द्राणामिव संघनरेशितुः ॥३१६॥ हयहेषारवैश्चक्रचीत्कारैर्जनशब्दितैः ।। शब्दो मद्गुण इत्यासीद् व्याप्तं गर्जदिवाम्बरम् ॥३१७॥ गृहीताभिग्रहान् पादचारिणो वीक्ष्य धार्मिकान् । रेणुव्याजात् तत्पदयोः पाविश्यायालगद् धरा ॥३१८॥ निरन्तरं संचचार संघलोकस्तथा यथा । निम्नोन्नतसमीकारात्समैवाभवदुर्वरा ॥३१९॥ तथा पथ्यचलत् संघो यथा लोकः परस्परम् । पृथग्भूतो न मिलति स्थानप्राप्ती न यावता ॥३२०॥ महत्यापि सरस्याद्यो जनः स्वच्छं जलं पपौ । मध्यमः कलुषं पश्चादागतः कर्दमं पथि ॥३२॥ प्रतिग्रामं ग्रामनाथा संघेशं स्मरमागतम् । विलोक्य दाधदुग्धादिप्राभृतान्युपनिन्यिरे ॥ ३२२ ।। 25 ग्रामे ग्रामे धार्मिकाणां संधैः सस्पर्द्धमागतः । अर्च्यते स्म पदद्वन्द्वं देसलस्य मुदन्वितैः ॥३२३।। 15 20 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004852
Book TitleNabhinandan Jinoddhar Prabandh
Original Sutra AuthorKakkasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages490
LanguageGujarati
ClassificationBook_Gujarati, History, & Literature
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy