SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ 10 चतुर्थः प्रस्तावः । तथा विहरमाणानामहतां साम्प्रतं भुवि । अकारयन्नवं चैत्यं स साधुर्जिनपृष्ठतः ॥२०७॥ अङ्गजः स्थिरदेवस्य लंदुकः साधुसत्तमः । चकार देवकुलिकाचतुष्टयमदुष्टधीः ॥ २०८ ॥ 5 जैत्रकृष्णाभिधौ संघपती त्वष्टौ च चक्रतुः । प्रधाना देवकुलिका जिनबिम्बसमन्विताः ॥२०९।। साधोः पृथ्वीभटस्यैव कीर्तिस्तंभो बभूव यत् । सिद्धकोटाकोटिचैत्यं तुरुष्कैः पातितं हि तत् ॥२१०॥ श्रीहरिश्चन्द्रतनयः साधुराट् केशवाह्वयः । तमुद्दधार भाग्यस्याधारः सारगुणाश्रयः ॥२११॥ युग्मम् तथाऽन्यदेवकुलिकालेपमुख्यमभूत् च्युतम् । तत्सर्व कोऽपि किमपि कारयामास पुण्यवान् ॥२१२।। तीर्थे सर्वस्थानकानि जज्ञिरे पूर्ववत्तथा । भंगं कस्यन (कश्चन) तीर्थस्य न विवेद यथा क्वचित् ॥११३।। 15 तत्प्रभो ! कलशस्यापि दण्डस्यापि तथाऽर्हताम् । परेषामपि सर्वेषां प्रतिष्ठा कार्यतेऽधुना ॥२१४॥-- गुरवः प्रोचिरे साधो ! प्रतिष्ठालनमुत्तमम् । यदा स्यात् तेन सा कार्या प्रतिष्ठा स्याद् यथा स्थिरा।।२१५॥ ततः सूरीन् गुणभूरीन् द्विजान ज्योतिर्विदोऽपि हि । 20 स[म]मीलयत लग्नस्य यथाशुद्धिविलोक्यते ॥२१६।। अथ भव्यदिने भव्यमुहूर्ते साधुदेसलः । आजहवत् सरिवर्यान् मुख्यान ज्योतिर्विदोऽपि च ॥२१७॥ निवेश्य सर्वानावासे तथा श्रावकपुङ्गवान् । आकार्योञ्चैरासनेषु न्यवेशयदनाकुलः ॥२१८॥ 25 देसलः प्राञ्जलिरथो सूरिज्योतिर्विदांवरः । स्थित्वा. प्रोचे शुभं किञ्चिल्लममन्वष्यतां प्रभो! ॥२१९॥ Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.004852
Book TitleNabhinandan Jinoddhar Prabandh
Original Sutra AuthorKakkasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages490
LanguageGujarati
ClassificationBook_Gujarati, History, & Literature
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy