SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ नाभिनन्दनोद्वारप्रबंधः । तत् केऽपि सन्तस्तद्वाससंसर्गात् तत्स्वभावताम् । प्रपद्यन्ते किमाम्रो न कटुः स्यान्निम्बसंगतः ॥१९४॥ परं पुण्यानुभावेन देशलस्य शुभात्मनः । बुद्धया साहणपालस्य सत्त्वेन समरस्य च ॥ १९५ ॥ 5 स्वयमेव समागत्य तेऽपि प्रमुदमेदुराः । २४४. साधो (:) विमुच्य दौर्जन्यं जज्ञिरे कार्यकारकः (काः) ॥१९६॥ बालचन्द्रमुनिबिम्बं मूलस्थाने निवेश्य तम् । श्रीपत्तने देशलस्य साधोः शुद्धिमकारयत् ॥१९७॥ तदा मुदा देसलोऽपि व्याजहार स्मरं सुतम् । 10 बिम्बे निविष्टे स्वस्थाने वच्छ (त्स) ! सिद्धं समीहितम् । १९८ चतुर्विधसंघयुतां यात्रां गत्वा वयं यदि । प्रतिष्ठां कारयामस्तत्कृतकृत्या भवेमहि ॥ १९९ ॥ ततो द्वावपि तौ तात- पुत्रौ पौषधवेश्मनि । गुरुश्रीसिद्धसूरीणां वन्दनार्थमुपागतौ ॥ २००॥ प्रणम्य प्राहतुः साधू अस्मदाशातरुः पुरा । पूज्योपदेशपाथोभिः सिक्तो योऽङ्कुरितोऽभवत् ||२०१॥ सिच्यमानोऽनिशं सोऽस्ति तैरेव वरवारिभिः । फलोन्मुखोऽधुना बिम्बमूलस्थानोपवेशनात् ||२०२|| तस्य प्रतिष्ठाकरणप्रसादवरदोहदान् । 20 सफलीकिय (कुरु) तामेष सद्यः सम्प्रति सुप्रभो ! ॥ २०३॥ तथैवछेचकान्मुख्यप्रासादशिखरोद्धृतिः । तीर्थोद्धारः परिपूर्णा कारिताऽस्ति भगवन् ! कलशावधिः ॥ २०४॥ तथाऽत्राष्टापदाकारं चतुर्विंशतिनाथयुक् । देवदक्षिणबाहुस्थं नवं चैत्यं च कारितम् ॥ २०५ ॥ 25 बलानकमण्डपस्य सिंहस्त्रिभुवनाग्रतः । उद्धारं कारयामास पूर्वजोद्धार हेतवे ॥ २०६ ॥ 15 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004852
Book TitleNabhinandan Jinoddhar Prabandh
Original Sutra AuthorKakkasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages490
LanguageGujarati
ClassificationBook_Gujarati, History, & Literature
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy