SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ चतुर्थ: प्रस्तावः | नदत्तूर्य रवैर्गीतैर्लोककोलाहलैरपि । दिशो मुखरिता रेजुर्गायन्त्य इव देसलम् ॥१५५॥ न बालो न युवा वृद्धः पत्तने न स कोऽपि ना । यस्तदानीं तत्र गत्वा फलहीं न व्यलोकयत् ॥ १५६ ॥ 5 सर्वेऽपि देसलं साधुसुतं च समरं जनाः । धर्मोद्धारकरत्वेन सुवन्दिन इवास्तुवन् ॥ १५७॥ सर्वसाधारणं भोज्यं प्रावर्तयत देसलः । साधर्मिकस्य वात्सत्यं चक्रे परमया मुदा ॥ १५८ ॥ सूत्रधारान् मार्गकारान् सार्धं संचारिणो जनान् । 10 वृषान् स्रुतानपि स्वर्णभूषणाद्यैरतोषयत् ॥१५९॥ स्थाने स्थाने सलकुटारत्संषु (?) त्रोटकोदितम् । चच्चरकैश्चञ्चरीषु गीतां गीतेषु गायनैः ॥ १६० ॥ गीयमानां सुतैर्भट्टैः पठ्यमानां गुणावलीम् । शृण्वन् स्वीयां देशलोऽग्रे फलहीं तामचालयत् ॥ १६९॥ 15 चालितायामथो तस्यां देसलः सुतसंयुतः । गुरुभिः परलोकैश्चानुगतो गृहमागतः ॥ १६२॥ युग्मम् प्रतिग्रामं प्रतिपुरं प्रतिगोकुलमप्यसौ । पूज्यमाना संचचार सद्यः सस्पर्द्धमागतैः ॥ १५३॥ यथा यथा संचचार फलहीयं पुरः पुरः । 20 तथा तथाग्रतो नश्यन् निर्नाशमगमत् कलिः ॥१६४॥ नरास्तदनुगा यत्र समे पथि विजानते । यास्यति क्रोशद्विती (त) यं शकटं लुठत् ॥ १६५ ॥ तदा देवानुभावेन न याति पदमप्यदः । यदा तु विषमे मार्गे प्रोन्नते वालुकाकुले ॥१६६॥ 25 विदन्ति ते कोशमात्रो मार्गोऽयं दशभिर्दिनैः । आक्रंस्यतेऽपि कष्टेन न वातीहापरा नराः ॥ १६७॥ Jain Education International १४१. For Private & Personal Use Only www.jainelibrary.org
SR No.004852
Book TitleNabhinandan Jinoddhar Prabandh
Original Sutra AuthorKakkasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages490
LanguageGujarati
ClassificationBook_Gujarati, History, & Literature
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy