________________
10
१४० - नाभिनन्दनोद्धारप्रबंधः ।
शुभे मुहूर्ते मन्त्रीशो विंशत्या वृषभैर्युतम् । शतेन सहितं नृणां शकटं तमचालयत् ॥१४॥ ततः पाताकमन्त्रीशः फलहीं समहोत्सवम् । स्वयं स्वदेशसीमानं व्यतिक्रम्य न्यवर्तत ॥१४॥ सरणिं समीकुर्वद्भिः सकुद्दालैनरैः पुरः। . तद्देवप्रेरितमिव चचाल शकटं रयात् ॥१४॥ स्थाने स्थाने पूज्यमाना वन्धमाना पदे पदे । क्रमण फलही प्राप खरालूनामकं पुरम् ॥१४५॥ तत्रागतायां तस्यां साक् संघस्तत्पुरसंस्थितः । प्रवेशोत्सवमातेने तदर्चनपुरस्सरम् ॥१४॥ अथ द्वितीये दिवसे फलही पुरतोऽचलत् । सम्प्राप सी सुखेनैव भाण्डूग्रामं कियहिनैः ॥१४७॥ माधुः समागतां तत्र फलहीं देसलो निजाम् । विज्ञाय जज्ञे समुत(द)स्तद्दर्शनसमुत्सुकः ॥१४८॥ तदैव श्रीसिद्धसूरीन् सर्व पत्तनसंस्थितम् । पौरलोकं समादाय स भाण्डूग्राममव्रजत् ॥१४९॥ विलोक्य फलहीं शुद्धां शीतद्युतिसमद्युतिम् आनन्दाश्रुसुधां साधोश्चक्षुश्चन्द्रोपलोऽगलत् ॥१५०॥ साधुर्लब्धानिधिरिष प्रमोदोत्फुल्ललोचनः । पूजां कुंकुम-कर्पूर-चन्दनाधैरकल्पयत् ॥१५॥ गायनानां बन्दिनां च सहस्राणि तदाऽमिलन् पित्रादेशात् समरोऽपि वस्त्रायैस्तानमानयत् ॥१५२॥ लोकोऽपि चम्पका-शोक-केतकी-बकुलादिभिः ।
सुमनोभिः सुमनसा फलहीतामपूजयत् ॥१५३॥ 25 भाविनि भृतवदुपचारो ब्याकरणविदम् ।
घचनं सत्यतां निन्ये तां जिनेति अनोऽर्चयत् ॥१५॥
15
20
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org