SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ नाभिनन्दनोद्धारप्रबंधः । सुरपालनृपो नत्वा पितरं च पितामहम् । गरबा स्वपुरमध्यास्त शास्ताऽभूत् सकलक्षितेः ॥ ८८९ ॥ बोऽथ गुरुभिः सार्धं विहर्तुमुपचक्रमे । साध्योऽपि पार्श्वे साध्वीनां वव्रजुमुर्वनुज्ञया ॥ ८९०॥ 5 परिपाल्य चिरं दीक्षां प्राप्य केवलसम्पदम् । शंखमुनिमोक्षः । प्रबोध्य भविनोऽनेकान् स समित्रः शिवं ययौ ॥८९१ ॥ श्रुत्वा श्रुतिहृतिकरं श्रवणप्रियाणाम् ९८ 10 नृणां नृपस्य चरितं किल शंखनाम्नः । भव्या भवन्तु सततं निरता भवन्तो दाने निदानरहिते शिवलग्नकेऽत्र ॥८९२ ॥ [ दानविषये शंखराजकथा समाप्ता । ] तथा सर्वेषां श्रेयसां मूलं शीलं पाल्यं विवेकिना । यतः सिंहादि - हस्त्याद्या वशे स्युरवशा अपि ॥८९३ ॥ 15 तपो द्वादशधाऽपि स्यात् विधातव्यं विपश्चिता । निकाचितानामप्याशु विगमः कर्मणां यतः ॥८९४ ॥ अहर्निशं भावनीया भावना विशदाशयैः । सफलानि यतोऽमूनि दान- शील- तपांस्यपि ॥८९५ ॥ चतुभ्ऽभ्यधिका साधो ! जयत्यन् ( लं ? ) प्रभावना । 20 तीर्थयात्रादिभिः कृस्यैः साऽऽधेया गृहमेधिभिः ॥ ८९६ ॥ साधो ! संघाधिपत्यं तु दुष्प्रापं चक्रिणामपि । समानय यतस्तीर्थकरनामापि लभ्यते ॥८९७॥ गुरूपदेशो हृद्यस्य वज्रलेप इवालगत् । तथाऽस्मिन् संबद्धा निश्चलाऽजनि धर्मधीः ॥ ८९८ ॥ 25 अथ निखिलदेशेभ्यः संघ संमील्य शुद्धधीः । शत्रुञ्जय महातीर्थप्रमुखेषु स सप्तसु ॥ ८९९ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004852
Book TitleNabhinandan Jinoddhar Prabandh
Original Sutra AuthorKakkasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages490
LanguageGujarati
ClassificationBook_Gujarati, History, & Literature
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy