________________
द्वितीयः प्रस्तावः । श्रूयते यहशास्योऽपि प्राप दर्पण दुर्दशाम् ॥८७६॥ न कस्यापि विश्वासो वत्स! कार्यः कदाचन । वायें विश्वासमुत्पाद्य किं कृतं घडवाग्निना ॥८७७॥
समोऽनुगजने वत्साप्युत्तमा-धम-मध्यमे । 5 तुलाकण्टकवद् भूयात् यथा स्यास्त्वं प्रमाणभूः ॥८७८॥ नारीषु नाग्रहः कार्यो नदीष्विव कदापि यत् । उद्यत्कुशा नयन्त्येतान्नृन्नुद्वाह्याम्बुधौ भवे ॥८७९॥ धर्मे वत्सोद्यमः कार्यः सर्वदा सर्वदायके ।
जायते तेजसो वृद्धिः सूर्यस्यापि वृषाश्रयात् ॥८८०॥ 10 दत्त्वेति सूनवे शिक्षा साधर्मिकजनेम्वथ ।
भक्त्या विधाय वात्सल्य दीनादिभ्यो धनं ददौ ॥८८१॥ मुनींश्च परया भक्त्या प्रतिपाल्याथ पुस्तकान् । अभ्याष्टाहिका जैनवेश्मसल्लासिनीय॑धात् ॥८८२॥
त्यक्त्वाऽन्तःपुर-रत्नादिसारवस्तुपरिष्कृतम् । 15 राज्यं सर्वमभूहीक्षाकक्षीकारसमुद्यतः ॥८८३॥
[त्रिभिर्विशेषकम् ] वाचमानैर्महानादैादित्रैर्विविधै रसैः। स पौरादिजनान्वीयमानमार्गः सुतेन च ॥८८४n
शिविकासस्थितः स्वर्णमणिभूषणभूषितः। 20 नगराग्निरगात् शंखो दीक्षादानोत्सुको नृपः॥८८५॥ [युग्मम्]
मुन्यन्तिकमुपागत्य शंखो दीक्षामयाचत। शंखनृपदीक्षा । सोऽपि तस्य ददौ पञ्चमहावतमणीनथ ॥८८६॥ नार्यो मदनमअर्यादयः पतिपथानुगाः।
घना अभूवनथवा योषितामुचितं ह्यदः ॥८८७॥ 25 शंखमित्रमपि श्रुत्वा शंखदीक्षा प्रदाय च ।
सूरपालाय राज्ये हे स्वीचके स व्रतं गुरोः ॥.८८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org