________________
नाभिनन्दनोद्धारप्रबंधः
देशेषु भ्रमताऽनेन जाया याः स्युर्विवाहिताः । समानाय्यत (त) म ( अ ) खिलास्ता आदरपुरस्सरम् ॥७०९ ॥ अतिस्फीतिसमापन्नराज्यद्वयविभुः प्रभुः । प्रतापी [स] तपनवत् ख्यातिं प्रापदनुत्तराम् ॥७१०॥ 5 नरोत्तमनरेशोऽथ सुतशुद्धिमवाप्य सः । प्राहैषी दौष्टि (ष्ट्र) कयुगं तस्याकारणकारणे ॥७११॥ तावेत्य त्वरितं शंखभूपतिद्वारि तस्थुषौ । वेत्रिणा वेदितौ राज्ञे नीतावन्तस्तदाज्ञया ॥७१२|| नतौ दण्डप्रणामेनोपलक्ष्य पितृसेवकौ । 10 भालिष्टौ सहसा राज्ञा हर्षोधुषितवर्ष्मणा ॥७१३ ॥ भूपोऽतिमुदितः स्वीयदेश्यदर्शनात्तयोः । स्वदेशादागतो वातो मुद्दे स्यात् किं पुनः पुमान् ॥ ७१४ ॥ क्षेमोदन्तं पितुर्मातुः परिवारजनस्य च ।
राज्यस्य सकलस्यापि प्रपच्छ स्वच्छमानसः ॥७१५॥ 15 व्याख्यन् देव ! सर्वेषां कुशलं विद्यते परम् । त्वद्दर्शनमहौषध्याऽधुना भावि निरामयम् ॥७१६॥ अर्पयामासतू राजादेशपत्रं महीभुजे ।
प्रीति सर्वस्वमिव सोऽग्रहीत् तातस्य भक्तितः ॥७१७॥ तमुन्मु स निस्तन्द्रो वर्णावलिमवाचयत् । 20 तथाहि स्वस्तिसहिताच्छ्रीमद्रत्नपुरात् पुरात् ॥७१८|| नरोत्तमनराधीशः शंखं शंखसमश्रियम् । सुतमादिशति प्रीतिस्फीतिपल्लवितान्तरम् ॥७१९ ॥ यदादि प्रस्थितो वत्स ! मामनापृच्छय कुत्रचित् । तदादि प्रस्थिता निद्रा - बुभुक्षा-रतयो मम ॥७२०|| 25 तथा स्वमातुर्मम च चक्षुषोर्नीलिकां किल । स्वदर्शनांजनेनाशु समेत्यापनयेः स्वयम् ॥७२१ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org